SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ परमाण्वादयस्तद्विषयकप्रत्यक्षज्ञानचिकीर्षाकृतिमानीश्वरः, स एवाऽस्य जगतः कर्ता भवतीत्याशयः । अत्र चाऽनुमानेन सर्गाद्यकालिकक्षितेः कृतिजन्यत्वे सिद्धे तादृशकृतिः द्रव्याश्रिता गुणत्वात् रूपवद् इत्यनुमानेन द्रव्याश्रितत्वे साधिते, तादृशकृतिः न पृथिव्यादिद्रव्यवृत्तिः, चेतनगुणत्वात्, न जीवात्मवृत्तिः, नित्यकृतित्वाद् इत्याद्यनुमानेन द्रव्यान्तरस्य बाधात् तादृशकृतिर्जीवात्मसहितपृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रिता पृथिव्याधष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वादिति परिशेषानुमानेन द्रव्यान्तरस्य बाधात् तादृशकृत्याश्रयतयेश्वरसिद्धिः । अत्र कृतिजन्यत्वपदेनोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिप्रयोज्योत्पत्तिमत्त्वं विवक्षितम् । कार्यं प्रत्युपादानज्ञानत्वादिप्रत्येकधर्मेण कारणत्वेऽपि कार्योत्पत्तौ सामग्रीत्वेन प्रयोजकत्वात्, प्रत्येकधर्मावच्छिनप्रयोजकतानिरूपितप्रयोज्यत्वस्योत्पत्तौ विरहात् । यदि च कार्यमाचे कृतित्वेनैवाऽन्वय-व्यतिरेकाभ्यां ज्ञानत्वेनेच्छात्वेन वा हेतुत्वं स्वीक्रियते तदा तादृशज्ञानजन्यत्वं कृतिजन्यत्वमिच्छाजन्यत्वं वा साध्यमस्तु । __ वस्तुतस्तु कृतिजन्यत्वमेव विशेष्यतासंबन्धावच्छिन्नकृतित्वावच्छिन्नकारणतानिरूपित-समवायसंबन्धावच्छिन्नकार्यत्वं साध्यम्, यत्र परमाणौ विशेष्यतासंबन्धेन कारणं कृतिस्तिष्ठति तत्र समवायसंबन्धेन व्यणुकं कार्यं वर्तते । तथा च समवायसंबन्धेन व्यणुकं प्रति विशेष्यतासंबन्धेन कृतिः कारणमिति कार्यकारणभावश्च बोध्यः । तेनाऽस्मदादिकृर्तेविशेष्यतासंबन्धेन परमाणौ वृत्तित्वाभावात् अदृष्टद्वाराऽस्मदादिकृतिजन्यत्वमादाय न सिद्धसाधनम् । एवं च कार्यं विशेष्यत्वसंबन्धावच्छिन्नकृतित्वावच्छिनजनकतानिरूपितजन्यतावद् प्रागभावप्रतियोगित्वाद् इत्यनुमानं फलितम् । ध्वंसे समवायसंबन्धावच्छिन्नजन्यतावत्त्वरूपसाध्यस्याऽभावाद् बाध: तन्निवारणाय सत्त्ववैशिष्ट्यं जन्यत्वे विशेषणम्। एवं च साध्याभावववृत्तित्वस्य ध्वंसे सत्त्वाद् व्यभिचारवारणाय सत्त्ववैशिष्ट्यं प्रागभावप्रतियोगित्वविशेषणम् । यद्यप्यत्र मुक्तावल्यां प्रसिद्धटीकाकारदिनकरभट्टमहोदयेन कार्यमात्रस्य ईश्वरीयकृतिजन्यत्वप्रवादमभ्युपेत्य कृतिजन्यत्वमात्रसाध्यं विधायोभयत्र सत्त्ववैशिष्ट्यं विशेषणं निरपेक्ष्यैव बाधव्यभिचारयोरभावः प्रदर्शितः । एवं चाऽस्मदीयहविगोचरकृतिजन्यत्वमादाय सिद्धसाधनवारणायाऽदृष्टाद्वारकत्वेन कृतिजन्यत्वं विशेषणीयमिति प्रोक्तम् । इत्थं चाऽनुमानप्रमाणेन साधिते ईश्वरे ईश्वरोच्चरितत्वेनैवाऽऽगमस्यापि प्रामाण्यात् “द्यावाभूमी जनयन् देव एको विश्वस्य कर्ता भुवनस्य गोप्ता" (शुक्लयजुर्वेदः १७/१९) इत्याद्यागमेनाऽपि परमेश्वरोऽनुसन्धेयः । २.२ आयोजनहेतुकानुमानविचारः ____ आयुज्यते संयुज्यते अनेनेति व्युत्पत्त्या - आङ्पूर्वकाद् युज्धातोः ल्युटि आयोजनं कर्म, तथा च सर्गाद्यकालीनव्यणुकारम्भकपरमाणुद्वयसंयोगजनकं कर्म प्रयत्नवदात्मसंयोगजन्यं, कार्यारम्भकसंयोगजनककर्मत्वात्, अस्मदादिशरीरकर्मवद् इत्यनुमानेन तादृशप्रयत्नवत्त्वेनेश्वरसिद्धिः । अत्राऽप्यागमः - यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ।। अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव च ॥ (महाभारत, वन० ३०/२१) २६
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy