________________
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।।
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥ (गीता, ९/१९) २.३ धृतिहेतुकानुमानविचारः
धृतिश्चाऽत्र गुरुत्ववतां पतनाभावः । तथा च ब्रह्माण्डादि पतनप्रतिबन्धकीभूतप्रयत्नवदधिष्ठितं धृतिमत्त्वात् वियति विहङ्गमधृतकाष्ठवद् इत्यनुमानेन तादृशधृतिमत्त्वाश्रयतयेश्वरसिद्धिः । अत्राऽप्यागमः - एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । (बृ. आर. उप. ५/७/७)
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । - यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ (गीता, १५/१७) । २.४ नाशहेतुकानुमानविचारः
अत्राऽऽदिपदाद् नाशादिपरिग्रहः । तथा च ब्रह्माण्डादि व्यणुकपर्यन्तं जगत् प्रयत्नवद् विनाश्यं, विनाण्यत्वात् पाट्यमानपटवत् । अत्राऽप्यागमः -
सर्वभूतानि कौन्तेय ! प्रकृति यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ (गीता, ९/७)। २.५ पदहेतुकानुमितिविचारः
पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति व्युत्पत्त्या पदं व्यवहारः एवोच्यते । अतोऽपीश्वरसिद्धिः । तथाह्यनुमानम् - पटादिसंप्रदायः स्वतन्त्रपुरुषप्रयोज्यः व्यवहारत्वात्, आधुनिकलिप्यादिव्यवहारवत् । अत्र संप्रदायनिर्माणपरंपरा एव व्यवहारः । तथा च सर्गादौ इतरबाधादीश्वरसिद्धिः । अत्राऽप्यागमः -
पितामहस्य जगतो माता धाता पितामह ! । यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ॥ मम वाऽनुवर्तन्ते मनुष्याः पार्थ ! सर्वशः ।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ॥ (गीता, ३/२३-२४) । २.६ प्रत्ययहेतुकानुमानविचारः
प्रत्ययतोऽत्र प्रामाण्यम् - तथा हि सर्गाद्यकालीनवेदवेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात्, लौकिकवाक्यजन्यशाब्दप्रमावद् इत्यनुमानेनापि सर्गादावितरवक्तृबाधादीश्वरसिद्धिः । २.७ श्रुतिहेतुकानुमानविचारः
वेदत्वं चाऽत्र - अनुपलभ्यमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वम् । तथा हि वेदः सर्वज्ञप्रणीतो वेदत्वात्, यन्नैवं तन्नैवं यथा रघुवंशादिः ।
२७