SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २.८ वाक्यहेतुकानुमितिविचारः वाक्यत्वहेतुनाऽपीश्वरसिद्धिः । तथा हि, वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्, अस्मदादिवाक्यवत् । तथा च वाक्यत्वावच्छेदेन पौरुषेयत्वस्य साध्यतया वेदेऽपि पौरुषेयत्वसिद्धिः । २.९ सङ्ख्याहेतुकानुमानविचारः सङ्ख्याविशेषः परमाणोर्द्धित्वम् । तथा ह्यनुमानं - व्यणुकपरिमाणं सङ्ख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वात्, तुल्यपरिमाणककपालद्वयारब्धपरिमाणात् प्रकृष्टतादृशकपालत्रयारब्धपरिमाणवत् । तत्र परिमाणं तावत् त्रिविधं - परिमाणजं, सङ्ख्याजं, प्रचयजन्यं च । उक्तं च मुक्तावलीकारेण “सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते" (कारिकावली, १११) । यथा घटपरिमाणं प्रति कपालपरिमाणं कारणं न तथा व्यणुकपरिमाणं प्रति परमाणुपरिमाणं, परिमाणस्य हि स्वसमानस्वसजातीयोत्कृष्टपरिमाणजनकत्वनियमात् । तत्र व्यणुकपरिमाणं प्रति परमाणुगतद्वित्वसंख्या कारणम्, अणुपरिमाणस्याऽकारणत्वात् । "अत एवोक्तं - पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्" (कारिकावली, ११) । एवं च सर्गादौ व्यणुकपरिमाणहेतु-परमाणुपरिमाणनिष्ठद्वित्वसङ्ख्या नाऽस्मदाद्यपेक्षाबुद्धिजन्या, सा यदीयापेक्षाबुद्धिजन्या स एवेश्वरः । एतेषां हेतूनामुपस्थापनेनाऽनुमानप्रमाणेन साधिते ईश्वरे तदुच्चरितत्वेन वेदस्याऽपि प्रामाण्यनिश्चयात् - "द्यावाभूमी जनयन् देव एको विश्वस्य कर्ता भुवनस्य गोप्ता" इत्याद्यागमेनाऽपि ईशसिद्धिः । ३. निष्कर्षः एतावता प्रबन्धेन शास्त्रेभ्य ईशस्य श्रवणानन्तरं मननपुरःसरं श्रुत्योपदिष्टविधिना निदिध्यासनेनाऽदृष्टद्वारा स्वात्मसाक्षात्कारद्वारा वा चरमदुःखध्वंसरूपो मोक्षो जायते । परमात्मनोऽखिलागमसञ्चरणशीलत्वात् मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्याऽपि मोक्षोपयोगित्वं सिद्धम् । उक्तं च - आगमेनाऽनुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ (योगदर्शनम् ८/२४) तत्राऽपि न्यायशास्त्रस्य प्रदीपवत् सर्वविद्यानां प्रकाशत्वेन सर्वशास्त्रोपकारकत्वं च निर्वहति । एवं च "तमेव विदित्वाऽतिमृत्युमेति, नाऽन्यः पन्था विद्यतेऽयनाय" इति श्रुत्या साधनान्तरनिषेधाच्च ज्ञानमेव मोक्षसाधनं सिद्धमिति दिक्। सन्दर्भग्रन्थसूची १. उदयनाचार्यः, न्यायकुसुमाञ्जलि (ई.सं. १९९७), वाराणसी : चौखम्बासुरभारती प्रकाशनम् । २. भट्टाचार्यः, विश्वनाथः, न्यायसिद्धान्तमुक्तावली (वि.सं. २०६१), वाराणसी : चौखम्बासंस्कृत___ संस्थानम् । ३. सूरिः, हरिभद्रः, षड्दर्शनसमुच्चयः (ई.सं. १९७०), सम्पा. महेन्द्रकुमार जैनः, वाराणसी : भारतीय ज्ञानपीठम् । २८
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy