Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ पुरुषार्थचतुष्टयस्य कर्तव्याऽकर्तव्ययोश्च विवृतिः संस्कृतिविषयो भवति । अहिंसा-सत्यास्तेय-ब्रह्मचर्याऽपरिग्रहादीनामवश्यकर्तव्यत्वेन निर्देशः । आस्तिक्यमनास्तिक्यं धर्मबुद्धिश्चेति संस्कृतेर्वैशिष्ट्यम्। उपनिषत्सु ब्रह्मप्राप्तिरात्मज्ञानं वा निर्दिश्यते । यथा - आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । (बृहदारण्यकोपनिषद् - ५/५/१५) यदि तपसा ब्रह्मसाक्षात्कारो जीवनेऽस्मिन्न क्रियते, तर्हि जीवनं विफलमेव । ब्रह्मज्ञानेनैव जीवनस्योपयोगिता भवति । यथा - इह चेदवेदीदथ सत्यमस्ति, न चेदिहाऽवेदीन्महती विनष्टिः । भूतेषु भूतेषु विचिन्त्य धीराः, प्रेत्याऽस्माल्लोकादमृता भवन्ति ॥ तथा च ईशावास्यमिदं सर्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ संस्कृतिलॊकेषु विश्वबन्धुत्वभावनां जागरयति । समत्वदृष्टिसम्पादनेन स्वपरहितविभेदनिवारणेन सार्वभौतिकी सार्वलौकिकी चोन्नतिं निर्दिशति । यथा - मित्रस्याऽहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥ यजुर्वेदः - ३६/१५ भौतिकविषयेष्वनासक्तस्य तत्त्वज्ञानं भवति - हिरण्मयेन पात्रेण सत्यस्याऽपिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ ईशोपनिषद् - १५ यज्ञः सर्वाङ्गीणोन्नतिसाधकः । परार्थसाधनेन साफल्यं प्राप्यते । परोपकारभावोदयः, स्वार्थपरित्यागस्त्यागवृत्तित्वं च जीवने परमावश्यकम् । अतः कथ्यते - यज्ञो वै श्रेष्ठतमं कर्म । (शतपथब्राह्मणम् - १/७/१/५)॥ २९५/१४ पट्टीरामपुरम्, खेकड़ा - २५०१०१ (बागपत) उ. प्र.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98