Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ अत्र कस्यचिदेस्य जनस्य पापादपरे नवाऽपि नरा निमज्जनस्य भयमासेवन्ते स्म । किन्तु तन्मिथ्या, एकस्मादुत्तमात् पुण्यभाज आत्मनः प्रभावादेवाऽवशिष्टा नवाऽपि नरा आरक्षिता आसन् । वयं सर्वेऽप्यस्माकं दुविपाकार्थं 'अनेनाऽपरजनेनाऽपराद्धम्' इत्याशङ्कामहे । कस्यचिदुपकृति द्रष्टुं न शक्नुमः, अपरेषां छिद्राण्यवगन्तुमस्मदपराधांश्चोपगृहितुं वयं पटवः स्मः । संसारस्य सन्धानकरणे सोच्छ्वासा वयं केवलं, स्वात्मानमेव संस्कुर्याम यदि तदा सृष्टिमध्यादेकोऽधमनरस्त्ववश्यमेव क्षीयेत । ........ आगच्छत ! आत्मनिरीक्षणस्य वर्त्मनि प्रस्थाय स्वात्मनो दोषान्दुरीकर्तुं जागृतिं बिभ्राणा वयमात्मन्येव सम्पश्याम ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98