Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
दीक्षा नाम किम् ?
अस्माकं जीवने अस्माभिः बहूनि श्रेष्ठवस्तूनि प्राप्तानि सन्ति । किं तानि वस्तूनि वयं जानीमः ? नैव, जानन्तोऽपि वा सर्वथा तानि उपेक्षामहे । कानि तानि वस्तूनि ? किं धनं परिवार: ऐश्वर्यं सुन्दरं शरीरं वा ? नैव नैव नैव.... अस्माभिः प्राप्तानि श्रेष्ठवस्तूनि इमानि मनुष्यगतिः, आर्यकुलं, सम्पूर्णः कायः, उत्तमः परिवारः, अहिंसादिकः धर्मः, धर्मप्रवर्तकास्तीर्थकराः, धर्मदेशका गुरवः, धर्मपालनानुकूलं च आर्थिकं सामाजिकं च वातावरणम् । अ ह ह ह ह अन्यैः बहुबहुभिर्नैव प्राप्तमिदं सर्वम् । परन्तु किं वयमेतेन सर्वेण स्वं सुखिनं धन्यं च मन्यामहे उत यथाकथमपि प्राप्तैः भौतिकैः सुखसाधनैरेव सुखिनं धन्यं च मन्यामहे ? सत्यं तु एतदेव अस्ति । अस्माकं परमं सुखमस्ति भौतिकवस्तुषु एव । धर्मं तु वयं तमेवाऽऽचरामो
भौतिकं सुखं प्राप्स्यते इति विश्वासः स्यात् । एतदर्थं दुर्लभाया मनुष्यगत्यादिसामग्र्याः उपयोग: सर्वथा अवास्तविकः । तस्या उपयोगः अस्ति केवलं धर्मसिद्ध्यर्थम् आत्मोन्नत्यर्थं च । एतच्च केवलं दीक्षाग्रहणेनैव सिद्ध्येत ।
ततश्च अस्माकं प्रश्नस्य समाधानमेतदेव यद् दीक्षा नाम अस्माभिः प्राप्तस्य सर्वस्याऽपि श्रेष्ठवस्तुनः सर्वथा समुचित उत्कृष्टश्च उपयोगः, दुरुपयोगस्य च सर्वथा अभावः । एतदर्थं चैव सर्वोऽपि अयं पुरुषार्थः । एतदेव च श्रेष्ठं फलं मनुष्यजन्मकल्पतरोः ।
(अज्ञातकर्तृकोऽयं लेख :)

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98