________________
आस्वादः
दीक्षा नाम किम् ?
अस्माकं जीवने अस्माभिः बहूनि श्रेष्ठवस्तूनि प्राप्तानि सन्ति । किं तानि वस्तूनि वयं जानीमः ? नैव, जानन्तोऽपि वा सर्वथा तानि उपेक्षामहे । कानि तानि वस्तूनि ? किं धनं परिवार: ऐश्वर्यं सुन्दरं शरीरं वा ? नैव नैव नैव.... अस्माभिः प्राप्तानि श्रेष्ठवस्तूनि इमानि मनुष्यगतिः, आर्यकुलं, सम्पूर्णः कायः, उत्तमः परिवारः, अहिंसादिकः धर्मः, धर्मप्रवर्तकास्तीर्थकराः, धर्मदेशका गुरवः, धर्मपालनानुकूलं च आर्थिकं सामाजिकं च वातावरणम् । अ ह ह ह ह अन्यैः बहुबहुभिर्नैव प्राप्तमिदं सर्वम् । परन्तु किं वयमेतेन सर्वेण स्वं सुखिनं धन्यं च मन्यामहे उत यथाकथमपि प्राप्तैः भौतिकैः सुखसाधनैरेव सुखिनं धन्यं च मन्यामहे ? सत्यं तु एतदेव अस्ति । अस्माकं परमं सुखमस्ति भौतिकवस्तुषु एव । धर्मं तु वयं तमेवाऽऽचरामो
भौतिकं सुखं प्राप्स्यते इति विश्वासः स्यात् । एतदर्थं दुर्लभाया मनुष्यगत्यादिसामग्र्याः उपयोग: सर्वथा अवास्तविकः । तस्या उपयोगः अस्ति केवलं धर्मसिद्ध्यर्थम् आत्मोन्नत्यर्थं च । एतच्च केवलं दीक्षाग्रहणेनैव सिद्ध्येत ।
ततश्च अस्माकं प्रश्नस्य समाधानमेतदेव यद् दीक्षा नाम अस्माभिः प्राप्तस्य सर्वस्याऽपि श्रेष्ठवस्तुनः सर्वथा समुचित उत्कृष्टश्च उपयोगः, दुरुपयोगस्य च सर्वथा अभावः । एतदर्थं चैव सर्वोऽपि अयं पुरुषार्थः । एतदेव च श्रेष्ठं फलं मनुष्यजन्मकल्पतरोः ।
(अज्ञातकर्तृकोऽयं लेख :)