SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सिद्धाचलेश्वरस्तवना श्रीसिद्धाचलेऽस्मिन् विराजमानो भगवान् जिनेश्वरो जगत्यां कुत्राऽप्यासनं न कृतवान् अत्रैव चोपविवेश, तत्किकारणम् ? तस्मिन् विषये बहूनि कारणानि सन्ति । तानि आचार्यश्रीविजयनेमिसूरिसमा ज्ञानचक्षुष एव जानन्ति, न त्वन्ये चर्मचक्षुषः । श्रूयन्तां तत्कारणानि । पर्वतगुणान् वदति देवो यथा - पर्वतो वायुवृष्ट्यग्निभवं दुःखं न गणयति किन्तु स्वयं तत्सम्भवं दुःखमनुभूय परानौषधिकदम्बकमूलफलजलवृक्षादिभिस्तोषयति, परं स्वयं तु पर्वतः स्थिरो धीरो भवति, तथाऽहमपि दुर्जनानुवादेन न कुप्यामि स्वभक्तानुवादेन न हृष्यामीति । यथा पर्वतात् सर्वं भूतलं दृश्यते, तथा ममाऽपि समाधिस्थितत्वाज्जगतीतलं भूगोलमनेकब्रह्माण्डान्यपि हस्तामलकवद् दर्शनगोचरा भवन्तु । यथा पर्वतोऽनेकजीवानामाश्रयो भवति, तथा मद्रूपमपि मद्भक्तानामाश्रयोऽस्ति इति । यथा पर्वतो लक्षवर्षान्तरेऽपि न नश्यति, तथाऽहमपि त्रिकाला-बाध्योऽविनाशीति । सूर्यगुणान् वदति देवः पर्वतात् सूर्यः समीपे वर्तते, यथा सूर्यः स्वप्रभया तिमिरनाशं कसेति तथाऽहमपि स्वतपःप्रभया मम मूर्ते रुचिराकृतितया सद्रत्नालङ्कारेण मद्भक्तानामज्ञानतिमिरं नाशयामि ज्ञानप्रभारूपप्रकाशं च ददामि । यथा सूर्यः किरणैर्णीष्मे सञ्चितं जलं वर्षासु विमुञ्चति तथाऽहमपि मत्तः सञ्चितं ज्ञानं भक्तेभ्यो वितरामीति । समुद्रगुणान् वदति देवः पर्वतात् समुद्रोऽपि दृश्यते । समुद्रोऽपि यथा वर्षासु न वर्द्धते ग्रीष्मे च न क्षीयते तथाऽहमपि सम्पत्तौ विपत्तौ च विकारं नाऽऽप्नोमि । यथा समुद्रान्तरमूल्यानि रत्नानि दृश्यन्ते तथा ममाऽपि भावं ज्ञातुं न कोऽपि समर्थोऽस्ति । एवं पर्वतोपरि स्थित्वा भक्तेभ्यो ज्ञानं ददामीतिहेतोरत्रैवोपयुक्त समग्रदृष्टान्तद्वारोपविशामि। पर्वतादाकाशं समीपं तत्सर्वत्र दृश्यते किन्तु न तस्याऽन्तो दृश्यते । तथाऽहमपि प्रत्यगात्मा केवलज्ञानविषयतया सर्वान्तर्यामी परं जगन्नाशेऽपि अहमविनाशीत्यर्थः । अतोऽत्रैवोपविष्टोऽस्मि । तत्रस्थं १०
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy