Book Title: Nandanvan Kalpataru 1999 00 SrNo 02 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ ...नन्दनवनकल्पतरुः २...... - - प्रास्ताविकम् । इदं वर्षं परमगुरूणां शासनसम्राजां पूज्याचार्यवर्यश्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणस्याऽर्धशतीवर्षमस्ति । अतस्तदुरसिकृत्याऽस्माभिरियं शाखा शासनसम्राविशेषाङ्कतया प्रकाशिताऽस्ति। ___ सहृदयैर्विद्वज्जनैरस्य प्रथमा शाखाऽत्यादरेण स्वीकृतेति मुदिताः स्मः । अथाऽस्माकं निवेदनस्य प्रत्युत्तरतया द्वित्रा लेखा अपि विद्वज्जगतः प्राप्ताः । तदर्थमपि प्रीताः पुनरपि निवेदयामो विद्वद्वर्येभ्यः साधु-साध्वीभगवद्भ्यश्च यद् भवतां गद्यपद्यात्मकान् लेखान् प्रेषयन्तु अस्मिन्नयनपत्रे। ___किञ्चैतस्यां शाखायां प्राकृतविभागोऽपि सम्मिलितोऽस्तीति प्राकृतभाषाविद्भिः शोधनीय इत्यनुरुध्यामहे । ____ अथ विज्ञप्तिरेकाऽस्माकं यत् पुस्तकप्राप्तौ तत्प्रतिभावः प्रत्युत्तरोऽपि वा कृपया प्रेषणीयस्तत्रभवद्भिर्भवद्भिरिति । शासनसम्राट्तीर्थम् मधुपुरी (महुवा) कीर्तित्रयी मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 100