Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ ४० ......नन्दनवनकल्पतरुः २..... - प्रचण्ड तेजोमूर्तिः श्रीतातपादः। - मुनिधर्मकीर्तिविजयः वर्तमानकालीनं सुघटितं व्यवस्थितं च जैनसमाजं तथा संयमसाधनायाः प्रतिकूलकालेऽपि श्रमण-श्रमणीसमुदायानां सानुकूलं जीवनं निरीक्ष्य चेतश्चिन्तयति, “किं निदानमस्य?''। तदा निर्मलमानसपटलोपरि विपुलतेजोन्वितललाट-गाम्भीर्यखचितवदनप्रसन्नरसनिमग्ननेत्र-प्रचण्डतेजोमूर्तिः श्रीतातपादः स्मृतिगोचरीभवति । शासनसम्राजः श्रीतातपादस्य स्वर्गारोहणार्धशताब्दी वर्षमस्ति । अस्मिन्नवसरे परमोपकारिणः सकलसङ्घमान्यस्य पूज्यपादस्य गुणगानं न गायेयं तर्हि कृतघ्नोऽहं भवेयम् । ततो यथामति गुणस्तुतिं कर्तुमुद्यतोऽहम् । यस्मिन् कालेऽध्ययन-अध्यापनप्रवृत्तिः मन्दीभूताऽऽसीत् । यस्मिन् काले श्रीपूज्यानां फ्रबलप्रभावोऽस्मिन् शासने प्रावर्त्तत । यस्मिन् काले योगोद्वहनस्य प्रणालिकाऽस्तंगताऽभवत् । यस्मिन् काले अञ्जनशलाकादिविधिविधानं लुप्तप्रायमासीत् । यस्मिन् काले संवेगमार्गिमुनयोऽल्पतरा एव व्यराजन्त । यस्मिन् काले राजकीयक्षेत्रे जैनसाधूनां प्रभावोऽकिञ्चित्करोऽभूत् । तस्मिन् विषमकाले प्रवर्तमाने सति वैक्रमीये नन्दनेत्रनिधिचन्द्रमिते (१९२९) वर्षे मधुरमुख-वाञ्छितफलद-अनन्तलब्धिनिधानश्रीगौतमगुरोः केवलज्ञानप्राप्तिदिने श्रीमधुपुर्या घोरान्धकारनाशको भास्कर इवाज्ञानतिमिरतिरस्कारकः प्रचण्डतेजोमूर्तिः श्रीतातपादोऽवातरत् । स प्रचण्डतेजोमूर्तिः श्रीतातपादस्तु परमगुरु-आबालब्रह्मचारि-अनेकतीर्थोद्धारक-सर्वतन्त्रस्वतन्त्र-सूरिचक्र चक्रवर्ति तपोगच्छाधिपति-शासनसम्राट् - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100