Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ ५२ .नन्दनवनकल्पतरुः २...... करुणायाः स्थायिभावोऽनुग्रहोऽस्ति, उपेक्षायाः स्थायिभावो निग्रहोऽस्ति ... ॥६४॥ आत्माऽज्ञानस्य प्रधानलक्षणं अहमस्ति, आत्मज्ञानस्य प्रधानलक्षणं प्रेमाऽस्ति ... ॥६५॥ पिण्डस्थध्यानात् निर्मलता आयाति, पदस्थध्यानात् स्थिरता आयाति, ख्यातीतध्यानात् तन्मयता आयाति ... ॥६६॥ श्रुतज्ञानात् स्थिरता आगच्छति, चिन्ताज्ञानाद् निर्मलता आगच्छति, भावनाज्ञानात् तन्मयता आगच्छति ... ॥६७।। अध्यात्मयोगाद् निर्मलता प्राप्यते, ध्यानयोगात् स्थिरता प्राप्यते, समतायोगात् तन्मयता प्राप्यते ... ॥६८|| अंहिसायाः पालनार्थं क्रोधनिग्रहस्य आवश्यकताऽस्ति, संयमस्य पालनार्थं इन्द्रियाणां निग्रहस्य आवश्यकताऽस्ति, तपः आराद्धं इच्छानिरोधस्य आवश्यकताऽस्ति ... ॥६९।। आचारस्य समताया नाम अहिंसा अस्ति, विचारस्य समताया नाम अनेकान्तोऽस्ति, भाषायाः समताया नाम स्याद्वादोऽस्ति, सामायिकस्य समताया नाम अपरिग्रहोऽस्ति ... ॥७॥ दुष्कृतवर्जनेन शान्तिर्भवति, सुकृतसेवनेन तुष्टिर्भवति, शरणगमनेन पुष्टिर्भवति ... ॥७१॥ समतया जीवे जीवत्वस्य चिन्तनं भवति, कर्मणि कर्मत्वस्य चिन्तनं भवति, गुणेषु गुणत्वस्य चिन्तनं भवति ... ||७२।। 'करेमि सामाइयं' पापवर्जनस्य प्रतिज्ञा अस्ति, ‘अप्पाणं वोसिरामि' सुकृतसेवनस्य प्रतिज्ञा अस्ति ... ।।७३।। मोक्षोपायस्य ज्ञानं 'ज्ञानम्' सम्यग्ज्ञानाद् निर्णीतमोक्षोपायेषु श्रद्धा ‘दर्शनम्', सम्यग्ज्ञान - सम्यग्दर्शनाभ्यां निर्णीतमोक्षोपायाणां यथाशक्ति जीवने आचरणं 'चारित्रम्' ... ॥७४॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100