Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ .नन्दनवनकल्पतरु: २...... - देवतत्त्वस्य आधारे गुरुतत्त्वमस्ति, गुरुतत्त्वस्य आधारे धर्मतत्त्वमस्ति, उत्पत्तिक्रमे देवो वरेण्योऽस्ति, साधनाक्रमे धर्मः प्रवर्होऽस्ति ... ॥७६।। यदा आत्मनि सचित्आनन्दस्वरूपस्य ध्यानं क्रियते तदा अभय अद्वेष - अखेदादयो गुण: स्वयमेव प्रकटन्ति ... ॥७७॥ अर्हतोऽकारोऽभयसूचकोऽस्ति, रकारोऽद्वेषसूचकोऽस्ति, हकारोऽखेदसूचकोऽस्ति ... ॥७८॥ शब्दानुसंधानादर्थानुसंधानं भवति, अर्थानुसंधानात् तत्त्वानुसंधानं भवति, तत्त्वानुसंधानात् स्वरूपानुसंधानं भवति ... ॥७९॥ मन्त्रेषु वर्णस्य प्रवेकताऽस्ति, मूर्तिष्वाकारस्य अनवरायंताऽस्ति, ताभ्यां परमतत्त्वोपासना भवति ... ॥८०॥ साक्षात् श्रीजिनेश्वरदेवस्य दर्शन-वंदन-पूजन-स्तवन-ध्यानदिभिर्यत् फलं मिलति तदेव फलं श्रीजिनप्रतिमाया दर्शन-वंदन-पूजन-स्तवनध्यानादिभिर्मिलति ... ॥८१॥ आज्ञाविचये देवाधिदेवस्य आज्ञा ध्येयाऽस्ति, अपायविचये कष्टमयसंसारो ध्ये योऽस्ति, विपाक विचये कर्मफलं ध्येयमस्ति, संस्थानविचये चतुर्दशराजलोकस्वरूपं ध्येयमस्ति ... ॥८२।। औपवस्तस्य त्रयः प्रकाराः सन्ति । गिर औपवस्तम् मनस औपवस्तम् विग्रहस्यौपवस्तम् । गिर औपवस्तात् प्राणविजयो भवति, मनस औपवस्ताद् मनोनिग्रहो भवति, आहारस्य(वर्मणः) औपवस्तादिन्द्रियजयो भवति ... ||८३॥ मैत्रीभावनायां जीवस्य जीवत्वं ध्येयमस्ति, प्रमोदभावनायां गुणाधिकता ध्येयाऽस्ति, कारुण्यभावनायां दुःखाधिकत्वं ध्येयमस्ति, माध्यस्थ्यमावनायां पापाधिकत्वं ध्येयमस्ति ... ॥८४।। पिण्डस्थध्याने प्रभोर्वार्ता ध्येयाऽस्ति, पदस्थध्याने प्रभो म ध्येयमस्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100