Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
७४
......नन्दनवनकल्पतरुः २......
येन मुधा न लभे। कोऽपि जनो यवान् क्रीणन्ति । अन्य आह - किमर्थं यवान् क्रीणासि ? तदा तेन कथितं - येन मुधा न लभे ।
मध्ये पतन्ति तानि कथम् ? एकस्मिन् देवकुले पथिका मिलिता भणन्ति, केन किमपि दृष्टम् ? तदैको भणति - मया दृष्टं, किन्तु यद्यत्र कोऽपि श्रावको न भवेत् तर्हि
कथयामि। सर्वैः कथितम् - नास्ति । तदा स भणति - पूर्वं मया समुद्रतीरे महन्महालयो वृक्षो दृष्टः, तस्य
शाखाः समुद्रं स्थलं च प्राप्ताः । तासां यानि पत्राणि जले पतन्ति तानि जलचराणि भवन्ति, स्थले
स्थलचराणि। वादिनो भणन्ति - अहो ! देवस्य विभूतिः। तदा तत्रस्थित एकः श्रावको भणति - यानि मध्ये पतन्ति तानि कथम् ?
(श्रीदशवैकालिकसूत्र-चूर्णितः)।।
स्वच्छताया एव पञ्च गुणाः श्रेयसः - प्रतीक ! परीक्षायां गणितविषये कियन्तो गुणाः प्राप्ताः ? प्रतीकः - पञ्च गुणाः । श्रेयसः - कथं पञ्चैव ? प्रतीकः - मया तूत्तरपत्रं यथातथमेव प्रत्यर्पितम्, अत एव परीक्षकेण
स्वच्छताया एव पञ्च गुणा दत्ताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100