Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ ......नन्दनवनकल्पतरुः २...... ८१ - - पुरस्सरं ताभ्यां समग्रजीवने प्रवृतिः कृताऽस्ति । स्वकीयेनाऽनुभवपरिपक्वज्ञानगुणेन शासनधुरीणां गुरुभगवतामपि तौ मान्यौ भूतौ स्तः । अतो न्याय्य एवैष बहुमानः'। भारतवर्षे सुवर्णचन्द्रकप्रदानपुरस्सरं जैनविद्वत्पण्डितवर्याणां बहुमानं सर्वप्रथमेवाऽत्र मधुमतीनगर्यामायोजितमस्ति । ‘एवंभूतान् सन्मानावसरान् वयं भविष्यत्कालेऽप्यायोक्ष्याम इत्यपि प्रतिज्ञातमत्रत्येन श्रीजैनसधेन । ____ समग्रस्याऽपि समारम्भस्य सञ्चालनं श्रीसञ्जयभाई ठार(भावनगर)द्वारा कृतमासीत् । विशालजनसमुदायस्योपस्थितावयं समारम्भः सोत्साह पूर्णतामितः॥ कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि। | आपुरन्दरमाकीटं संसारस्थितिरीदृशी॥ “हैमवचनामृतम्" - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100