Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
५४
.नन्दनवनकल्पतरुः २
रूपस्थध्याने प्रभोराकृतिर्थ्येयाऽस्ति, रूपातीतध्याने प्रभोः
शुद्धात्मा - ध्येयोऽस्ति
॥८५॥
परमात्मध्यानं मूर्त्यां स्थाप्यसंबंधेन भवति, मन्त्रे वाच्यस्मरणेन भवति, आज्ञापालने आज्ञाकारक संबंधेन भवति ॥८६॥
वर्णस्य संबंधः प्राणेन सह, प्राणस्य संबंधो मनसा सह, मनसः संबंध आत्मना सह, आत्मनः संबंधोऽन्तरात्मना सह, अन्तरात्मनः संबंधः परमात्मना सह अस्ति ॥८७॥
देहदृष्ट्या पश्यन्नहं दासोऽस्मि, जीवदृष्ट्या पश्यन्नाहमात्मास्मि, आत्मदृष्ट्या पश्यन्नहं परमात्माऽस्मि
॥८८॥
मन्त्रेण मननपरिणामः सम्यग्ज्ञाने आयाति मूर्त्या दर्शनपरिणामः सम्यग्दर्शने आयाति, आगमेन अनुसरणपरिणामः सम्यक् चारित्रे आि ॥८९॥ अयमात्मा देहवान्नास्ति किन्तु देही अस्ति, शरीरवान्नास्ति किन्तु शरीरी अस्ति
॥९०॥
आत्मद्रव्यं यथा यथा विशुद्धं भवति तथा तथा आत्मद्रव्यस्य अन्तरङ्गसाहजिकशक्तिर्विकसति, विशुद्धात्मद्रव्यस्य विकस्यमाना शक्तिः सदा जगते उपकारका एव भवति ॥९१॥
आज्ञापालनं विना मोक्षो नास्ति इति श्रद्धा कथयति, आज्ञाकारकस्य ध्यानं विना आज्ञापालनं नास्ति इति भक्तिः कथयति
॥९२॥
क्रियाया मूलं श्रद्धाऽस्ति, श्रद्धाया मूलं भक्तिरस्ति, भगवतोऽचिन्त्यसामर्थ्यस्य ज्ञानमस्ति, ज्ञानस्य मूलमात्मद्रव्यमस्ति आज्ञापालकस्य अनुरागेण तथा आज्ञाकारकस्य अनुग्रहेण मोक्षमार्गो भवति
Jain Education International
118811
साध्यस्य श्रेष्ठताया ज्ञानं भक्तिवर्धकमस्ति साधनस्य श्रेष्ठताया ज्ञानं श्रद्धावर्धकमस्ति
॥९५॥
"
भक्तेर्मूलं
118311
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100