Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
......नन्दनवनकल्पतरुः २......
-
निश्चयस्य विचारः ज्ञानगुणं विकासयति, व्यवहारस्य विचारश्चारित्रगुणं विकासयति ... ॥५२।। स्वस्य विचार आर्तध्यानस्य हेतुरस्ति, सर्वस्य विचारो धर्मध्यानस्य कारणमस्ति, आत्मद्रव्यस्य विचारः शुक्लध्यानस्य बीजमस्ति ... ॥५३॥ दुष्कृते हेयबुद्धिः सुकृते उपादेयबुद्धिः सम्यग्दर्शनस्य लक्षणमस्ति ... ॥५४।। दानवृत्तेर्मूलं त्यागवृत्तिरस्ति, त्यागवृत्तेर्मूलं कृतज्ञभावोऽस्ति, कृतज्ञभावस्य मूलं परोपकारिताऽस्ति ... ॥५५।। यत् सत्यमस्ति शिवमस्ति सुन्दरमस्ति तद् निर्विचारावस्थायामेव प्राव्यते
... ॥५६॥ य एकजीवस्य रक्षा करोति स विश्वस्य सर्वजीवानां रक्षां करोति, य एकजीवं हन्ति स विश्वस्य सर्वजीवान् हन्ति ... ॥५७।। सत्यमेकमस्ति विचारोऽनेकोऽस्ति, सत्यसाक्षात्कारस्य द्वारं निर्वचारावस्थाऽस्ति
... ॥५८॥ योऽर्हद्भगवन्तं तस्य शुद्धात्मद्रव्येण शुद्धकेवलज्ञानगुणेन शुद्धस्वभावपरिणमनस्वरूपपर्यायेण जानाति स एव निश्चयेन आत्मानं जानाति ... ॥५९।। आत्मज्ञानाय नमस्काराभ्यास आवश्यकोऽस्ति, निष्कामकर्मणे सामायिकाभ्यास आवश्यकोऽस्ति ... ॥६०॥ यावत्कालपर्यन्तं मनः क्रियाशीलमस्ति तावत्कालपर्यन्तं सत्यस्य प्राप्तिर्न भवति, यदा मनः शान्तं भवति तदा सत्यस्य अनुभूतिर्भवति ... ॥६१॥ अभ्यासवैराग्याभ्यां चित्तस्य या सात्त्विकैकाग्रध्येयाकारवृत्तिः सैव योगाभ्यास:, योगाभ्यासस्य मुख्यविषय आत्मसाक्षात्कारोऽस्ति ... ॥६२॥ आत्मा सूक्ष्मतमोऽस्ति अतः स्थूलात् सूक्ष्मे, सूक्ष्मात् सूक्ष्मतरे, सूक्ष्मतरात् सूक्ष्मतमे गम्यते ... ॥६३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100