Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.नन्दनवनकल्पतरुः २......
हठयोगे क्रियाया मुख्यताऽस्ति, राजयोगे आत्मोपभोगस्य मुख्यताऽस्ति
... ॥३९॥ परमात्मनः साकारमुद्रा मूर्तिरस्ति, साकारेण निराकारस्य बोधो भवति ... ॥४०॥ आत्मा प्रदेशार्थनयेन देहव्यापी अस्ति, ज्ञानार्थनयेन विश्वव्यापी अस्ति ... ॥४१॥ बाह्यतपः आभ्यन्तरतपसे सहायकं भवति तदेव मुक्तिसाधनाङ्ग भवति ... ॥४२॥ अस्मिन् देहे आत्मभावना देहान्तरगते/जमस्ति, आत्मनि आत्मभावना विदेहनिष्पतेर्बीजमस्ति ... ॥४३॥ यस्य आन्तरिकभावो विशुद्धोऽस्ति, रागद्वेषमोहाऽविद्यारहितोऽस्ति स मोक्षाधिकारी अस्ति ... ॥४४॥ धारणाध्यानसमाधयो योगस्याऽन्तरङ्गसाधनानि सन्ति, व्रतपूजास्वाध्यायादीनि बहिरङ्गसाधनानि सन्ति ... ॥४५।। हे आत्मन् ! यदि त्वं प्राज्ञः असि तर्हि तमेव गुरुं सेवस्व, तान्येव शास्त्राण्यधीष्व, तदेव तत्त्वं परिभावय यैः समतापीयूषोपभोगो भवेत् ... ॥४६।। ज्ञानिनः साधनारम्भे एकत्व-अन्यत्वादिभावनाभ्यासः सूचितः, एकत्वअन्यत्वादिभावनाभ्यासेन अंतर्मुखता प्रकटति ... ॥४७॥ यथा विहायः सर्वभावानामाधारोऽस्ति तथा सामायिकं सर्वगुणानामाधारोऽस्ति
... |॥४८॥
यादृक् विचार: तादृश एव आचारः, यादृक्ष आचारः तादृक् एव विचारः, सः तात्त्विकपरिणामोऽस्ति ... ॥४९।। अध्यात्मयोगात् निर्मलता, ध्यानयोगात् स्थिरता, समतायोगात् तन्मयता ।। प्राप्यते ... ॥५०॥ आत्मा निश्चयेन एकोऽस्ति, व्यवहारेण अनेकोऽस्ति, निश्चयेन पूर्णोऽस्ति, व्यवहारेण सावरणोऽस्ति ... ॥५१।।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100