Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ ...नन्दनवनकल्पतरुः २...... ४९ धर्माराधनाया लक्ष्यं पूर्णतायाः परिपूर्णप्राप्तिरेव अस्ति ... ॥२०॥ यदा विचारो विरमति तदा मौनं सिध्यति ... ॥२१॥ तपस आराधनायै इच्छानिरोधस्य आवश्यकता अस्ति ... ।।२२।। अध्यात्मशास्त्रस्य चिन्तनेन-परिशीलनेन आत्मनः साक्षात्कारो भवति ... ॥२३॥ यथा यथा दयाभावो वर्धते तथा तथा वैराग्यभावो वर्धते ... ॥२४॥ आगमेन आत्माज्ञानं ट्वलति, मूर्त्या आत्मज्ञानं मिलति ... ॥२५।। रागरहितं हार्दं तदेव अहिंसाया अनुभूतिरस्ति ... ॥२६॥ अभ्यासोऽध्यवसाये परिणमेत्, वैराग्यमक्ये परिणमेत् ... ॥२७॥ ज्ञानेन शमादिगुणा राजन्ते शमादिगुणैर्ज्ञानं राजति ... ॥२८॥ यत्र निर्विचारावस्थाऽस्ति तत्र निजानन्दस्वरूपात्मा अस्त्येव ... ॥२९॥ ज्ञानेन चारित्रस्य वृद्धिर्भवति, चारित्रेण ज्ञानस्य वृद्धिर्भवति ... ॥३०॥ आत्मनि नित्यत्वं भयं हरति, शुद्धत्वं द्वेषं हरति, बुद्धत्वं खेदं हरति ... ॥३१॥ आत्मज्ञानामृतस्य अन्तिमसाधनं ध्यानमस्ति ... ॥३२॥ परप्रकाशता सहजोपचरिताऽस्ति, स्वप्रकाशता निरुपचरिताऽस्ति ... ॥३३॥ मोहहासाय स्वरूपानुसंधानं प्रबलशस्त्रमस्ति ... ॥३४॥ जीवने यमनियमसंयमोपेक्षा आत्मवञ्चनाया एकपदी अस्ति, न आत्मविकासस्य ... ॥३५॥ ज्ञानदशायां ज्ञानस्य प्रधानता अस्ति, व्यवहारदशायां क्रियाया मुख्यताऽस्ति ... ॥३६॥ तपसा वर्मशुद्धिर्भवति, जपेन हृत्शुद्धिर्भवति, त एव संयमस्य फलं स्तः ... ॥३७॥ आत्मा ज्ञानेन ज्ञायते, दर्शनेन दृश्यते, चारित्रेण निगृह्यते ... ॥३८॥ - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100