Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ ४६ ......नन्दनवनकल्पतरुः २...... - कृत्वा च दर्शनपूजनं तत्तत्परमाहलादक भव्यप्रभूततर जिनबिम्बानां भवन्त्यवश्य-मानन्दसुधासागरनिमज्जिताः । अपरञ्च अवस्थितोपाश्रय-ज्ञानशाला-धर्मशाला-भोजनशालादीनां रचनापि विस्मयकारिण्येव ।। पूज्य शासनसम्राज: कतिकृत्व: वार्ताप्रसंगे कदम्बगिरितीर्थे चातुर्मासीस्थितीकरणाय मनोभावं प्रदर्शितवन्तः । किन्तु तथाविधभवितव्यतावशात् तेषां स विचारा नैव कार्यरूपेण परिणतः । किन्तु तं कृतार्थी कर्तुकाम एव तेषामनन्यपादपद्मसेविसद्धान्तवाचस्पति-न्यायविशारदपूज्याचार्यश्रीमद्विजयउदयसूरीश्वराः तत्र चातुर्मासीमकुर्वन् । श्रीक्दम्बगिरितीर्थसमीपवर्तिचोक-मोरचुपणा-भण्डारीया-जेसरप्रभृतिग्रामवासिनो जनाः प्रमुदितमानसास्तत्रागत्य भूरिभक्त्या व्याख्यानश्रवण-सामायिकप्रतिक्रमण-पौषधादिचातुर्मासिकाराधनां विहितवन्तः । चातुर्मास्यनन्तरं पञ्चमङ्गलमहाश्रुतस्कन्धादिश्रुतोपचाररूपोपधानतपसः आराधनाऽपि तेषां पूज्यपादसूरीश्वराणां पुण्यनिश्रायां प्रारब्धा । तथाविधपरमशान्त-पवित्र-प्रसन्नवातावरणे आराधकैः कृता खलु साऽऽराधना परमतोषकरी चिरकालसंस्मरणीया च जाता । तस्य मालारोपणमहोत्सवप्रसङ्गे वयं भावनगरतो विहृत्य पूज्याचार्यश्रीविजयमे रुप्रभसूरीश्वराऽस्मद् गुरुवर्यैः सह तत्र समागताः। कुशाग्रमतिवैभवविभूषिताः सिद्धान्तमार्तण्डपूज्याचार्यश्रीमद्विजयनन्दनसूरीश्वरमहोदया अपि पादलिप्तपुरतो विहृत्य तत्प्रसङ्गे समुपस्थिताः । कदम्बगिरिसदृशे नीरवशान्तस्थले भूरिसङ्ख्याकमुनिवराणां सहावस्थानमतीवाऽऽनन्ददायक जातम् । __ अधस्तनप्रदेशे द्वासप्ततिदेवकुलिकासमेतश्रीमहावीरस्वामिचैत्यमतीव मनोहरं विद्यते, बहिर्भागे उभयपार्श्वस्थितौ गजराजौ विलोक्य के चन तौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100