Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ .......नन्दनवनकल्पतरुः २...... - काल उदितमस्तङ्गमयति, अस्तगतं च उदायति किन्तु अस्तित्वं परावर्त्तयितुं न स शक्तोऽस्ति । शासनसम्राजस्तु न केवलं व्यक्तित्वं किन्तु कालजयि अस्तित्वमपि। व्यक्तित्वं विलीयते कालेन, अस्तित्वं तु शाश्वतमवतिष्ठते। जिनशासनस्य प्राणतुल्यानां तेषां भगवतामस्तित्वं नैकरूपेण विलसदनुभूयते वर्तमानकालेऽपि । तदेव चाधुना जैनशासने दृश्यमानाया उन्नत्या अप्याधाररूपमस्ति। ____ जगद्वन्द्यानामेतेषां महापुरुषाणामेतत्स्वर्गारोहणार्द्धशताब्दीवर्ष प्रवर्त्तते । एतस्मिन्नवसरे च तेषां पूज्यपादानामुपकारान् संस्मृत्य तद्दर्शितपथं चाऽनुसृत्य हार्दिकी भावाञ्जलिं समर्पयेम। प्रान्ते - कालजयिनामेतेषां महापुरुषाणां सर्वाङ्गसम्पूर्ण गुणसङ्कीर्तनं न मादृशैरज्ञैः शक्यम् । केवलं तेषामचिन्त्यमहिमशालिनां साधुतायाः परमोपासकानां चरणमभिवन्द्य तेषां कृपाप्रसादेन मय्यपि साधुतायाः प्रादुर्भावो भूयादिति प्रार्थयामि । इति शम्। शान्ता महान्तो निवसन्ति सन्तो वसन्तवद् लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः॥ महात्मनां कीर्तनं हि श्रेयो निःश्रेयसास्पदम् ।। " हैमवचनामृतम्' - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100