Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.नन्दनवनकल्पतरुः २......
स्वचेष्टितेन येन यज्जगत्समं वशीकृतं तदक्षवृन्दमञ्जसा जितं स्वकीयतेजसा । भवप्रचारवारकं प्रतापपुञ्जधारकं भजामि नेमिसूरिपं स्वचितशुद्धये परम् ||५||
महौजसा च यत्कृतं त्वया जिनेन्द्रशासने न कोऽपि दृश्यतेऽपरोऽत्र नाथ ! तत्कृते ह्यलम् । कृतं यदुष्णरश्मिना तदर्थमस्ति कः प्रभुः ? अमेयशक्तिधारिणे नमोऽस्तु नेमिसूरिणे || ६ ||
समुद्धृतानि नैकजीर्णतीर्थकानि येन हि तथाऽञ्जनादिसद्विधिप्रवर्तनं कृतं पुनः । तपागणैकनायकं ममाऽपि बोधिदायकं नमामि नेमिसूरिणं परास्तकामवैरिणम् ||७||
Jain Education International
चन्द्रज्योत्स्नेव यस्य प्रथितमनुदिनं सद्यशस्तेज उच्चै - रुद्यतं शासनाभ्रे प्रणयति विपुलं सच्चकोरांश्च प्रीणत् । शीलाद्यैः सद्गुणौघैरिव रचिततनुं नेमिसूरीश्वरं तं लाजैः सद्भावरूपैः प्रमुदितहृदयोऽहं हि वर्धापयामि ||८||
XXX3
श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥
66
' हैमवचनामृतम्
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100