Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ ......नन्दनवनकल्पतरुः २...... - - तत्क्षेत्रीयाः सर्वे ठक्कुरा व्यसनिनो हिंसादिषु च सततं प्रवृत्ता आसन् । कदम्बगिरितीर्थस्योपरितनभागे कमलादेव्याः स्थानकमासीत् । सर्वे ते ठक्कुरास्तां भजन्ति स्म पूजयन्ति स्म च । अतस्तत्पर्वतः ‘कमलादेव्याः पर्वत' इत्येवं ख्यातोऽभूत् । गुरुभगवन्तोऽपि तत्र प्रदेशे विहृतवन्तः । मधुरया गिरा चोपदिष्टवन्तोऽपि । निर्मलचारित्रस्यानुभावादमोघया वाण्या ते सर्वे ठक्कुराः प्रबुद्धाः । सर्वैस्तैर्व्यसनानि त्यक्तानि गुरुभगवतां च भक्तत्वमपि प्रतिपन्नम् । उपकारिणामुपकारस्य सदैव संस्मृतिः, उचिते च काले तस्य प्रत्युपकरणस्याऽभिलाष इत्यार्यत्वलक्षणमस्ति । अन्यत् किमपि जानीयादथवा नाऽपि जानीयात् किन्तु सामान्यजनोऽपि यद्यार्यत्वेन संस्कृतो भवेत्तर्युपकारं तु न स कदापि विस्मरेत् । अत्राऽपि सर्वे ते ठक्कुराः सन्मार्गप्रापकानां गुरुभगवतामुपकाराणां प्रत्युपकरणे उद्यता अभूवन् । गुरुभगवन्त एकदा ठक्कुरैः सह पर्वतोपरि गताः । स्वस्य भावनाऽपि तेषामग्रे प्रदर्शिता यद् - ‘अत्र वयं कतिचित् स्थानानि निश्चिनुयाम । तानि तु यूयं जै नसङ्घाय दत्त । यस्मिन् स्थले धार्मिकस्थानानि निर्माणमाप्स्यन्ति धार्मिककार्याण्यपि च तत्र भविष्यन्ति । युष्माकं कल्याणमप्येतेन भविष्यति' इति । ठक्कुरास्तु सर्वे विना मूल्येनैव दातुमुत्सुका ऊचुः - ‘वयं नैनां भूमिं विक्रेतुमिच्छामः । यदि तत्रभवन्तः स्वीकुर्युस्तर्हि वयं भवद्भ्य एवोपहारस्वरूपेणैव दातुं कामयामहे ।' ‘साधूनामेतादृशोपहारस्वीकारकरणं न कल्पते' इत्युक्त्वा गुरुभगवद्भिरस्वीकृतिर्दर्शिता । तदा तेऽकथयन् - 'पूर्वं श्रीहीरसूरिभगवत्र्योऽपि अकब्बरनृपेणैवमैव शत्रुञ्जयादितीर्थानि प्रदत्तानि । तैः पूज्यैस्तु तत्स्वीकारोऽपि कृत एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100