Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ .....नन्दनवनकल्पतरुः २...... - चरित्र कथा || शासनसम्राट एकं कालजयि अस्तित्वम् ।। -मुनिरत्नकीर्तिविजयः तेसिं नामग्गहणे पावप्पबंधा विलयं जंति ।। प्रवर्ततेऽस्मिन्पृथिवीतलेऽविच्छिन्नतयाऽद्यावधि लोकोत्तरमेतजिनशासनम् । निर्ग्रन्थाः साधुमहात्मानोऽस्य शासनस्याऽविच्छिन्नताया आधाराः सन्ति। अद्यपर्यन्तमस्मिन्शासने नैके धुरीणा महापुरुषा अभवन् । यैः सर्वरीत्याऽस्य शासनस्योद्योतः कृतोऽस्ति। शासनस्य सर्वोपरित्वमपि यथातथमेव रक्षितं तैः । कार्यस्यास्य साफल्ये मूलमस्ति तेषां महापुरुषाणां साधुत्वम् । विशुद्धायाः साधुताया: विकासे मुख्य द्वे शक्ती वर्तेते - अहङ्कारशून्यं ज्ञानं निर्दम्भचारित्रं च। प्रविशति ज्ञाने यदाऽहङ्कारो यदा च दूष्यते चारित्रं दम्भेन तदा यत्प्रवर्तते तन्न शासनप्रभावना शासनस्योद्योतो वा । किन्तु तत्कपटेन मुग्धजनान् वञ्चयित्वा स्वकीयस्य स्वार्थस्याऽहङ्कारस्य च पुष्टिरेव भवति । तत्र स्वोत्कर्ष एव शासनप्रभावनात्वेन मन्यते । यत्तु केवलं भ्रमरूपमेव । बहुशो भ्रमो वस्तुस्थित्या अधिकं मधुरोऽनुभूयते । अपरं च, सुकरमज्ञानस्य दूरीकरणं भ्रममुक्तिस्तु सुदुष्करैव । नयति भ्रमः कदाग्रहं प्रति जाड्यं प्रति चाऽज्ञानम्। ____ यावन्न विलीयतेऽहङ्कारो दम्भोऽपि यावन्नोन्मूल्यते तावन्न बाह्यवेषः साधुताया द्योतको भवति। “त्यागात् कञ्चकमात्रस्य, भुजगो न हि निर्विषः” साधुत्वस्य साधना नाम निर्विषीभवनस्य प्रक्रिया । सांसारिकवेषस्य त्याग-1 मात्रेणैव न कदापि साधुत्वं प्रादुर्भवति, किन्तु सांसारिकस्थितेः सर्वात्मना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100