Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ ......नन्दनवनकल्पतरुः २...... mana - - त्यागेनैवोद्भवति । बाह्यवेषस्तु केवलं साधुपदं सूचयति न तु साधुत्वं तत्तु आन्तरपरिणत्यैव ज्ञायते । पुण्यं हि बाह्याडम्बरं निर्मातुमलं किन्तु साधुतायाः विकासं न तत्प्रतिजानीते । तस्याः विकासस्तु पौरुषेण शुद्धपरिणत्या चैव कर्तुं शक्यः ।। अथ च पुण्यं यदा बलीयः तदा बहुशः पुरुषार्थो विकलो भवति । तदैव चाऽहङ्कारो दम्भश्च प्रवेशमाप्नुतः । अत एव साधुः सदैव पुण्याद् बिभेति । उक्तं च - 'भवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्ति - रिति शास्त्रव्यवस्थितेः ।।' (अष्टकप्रकरणे ७/३) पुण्यवाञ्छाऽपि साधूनां निषिद्धा श्रीहरिभद्रसूरिभगवताऽनेन कथनेन । यतो न कदाचिदिच्छति साधुः पुण्यं न च स्वोत्कर्षाय तदुपभुङ्क्ते । शासनमेव भवति साधोः सर्वस्वम् । यच्च स आदरति कुरुते च तत्सर्वं शासनस्य सड़घस्य चोत्कर्षार्थमेव भवति । तथैव च तस्य साधुत्वं दीप्यतेऽपि । ___वर्तमानकाले एतादृश्याः परमनिरीहाया ज्ञानपूतायाश्च साधुताया धारकाः पुरस्कर्तारश्च, स्वकीयेन च सामर्थ्येन शासनस्य सड़घस्य च सर्वरीत्योन्नतिकराः महापुरुषाः शासनसम्राड्-बालब्रह्मचारि-तपागच्छाधिपति-सूरिचक्रचक्रवर्तितातपाद-आचार्यश्रीविजयनेमिसूरीश्वराः सन्ति स्म । अतस्तेषां परिचयदानार्थोऽयं प्रयासो मम। ____ वस्तुतस्तु तेषामयं परिचयप्रयासो दुस्साहसमेव मादृशानाम् । यतोऽनुभूतिगम्यं जीवनं शब्दस्थयितुं कथं शक्यम्? ती पि यस्य कस्याऽपि यत्किञ्चित्स्वरूपाऽपि भक्तिः सत्पुरुषैरवश्यमेवाऽऽदरणीया भवतीत्यतो ममाऽपीदृशी बालसुलभां चेष्टां सत्पुरुषाः स्वीकुर्वन्तामित्यभ्यर्थये । "बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णता-कथयति स्वधियाऽम्बुराशेः ? ॥' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100