Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ १६ ......नन्दनवनकल्पतरु: २...... - गता। परमपूर्वसमाधिना सर्वं सहमानास्तेऽतिष्ठन् । सकलोऽपि भावनगरस्थः सङ्घो नक्तन्दिनं तान् शुश्रूषते। व्याधिना सार्द्धं समाधिरपि तेषां प्रावर्द्धता एवं समाधि-पूर्वकं सकलसङ्घस्योपस्थितावेव स्वर्गतास्ते पूज्यचरणाः । वृतान्त एष गुरुभगवतां श्रुत्वा श्रीनेमविजयमहाराजा भग्नहृदया अभूवन् । अन्तःकाले स्वस्याऽनुपस्थित्या दुःखं तान् शल्यायते स्म । किन्तु 'न घटितं प्रत्येति कदापी'ति चिन्तयन्तः स्वस्था अभवन् । ‘अधुना तु गुरुभगवत्तुल्यान् गुणानङ्गीकृत्य तेषां च भावनानुरूपेण शासनस्योद्योत एव कर्तव्य' इति निश्चितवन्तः । नन्दवेदनिधीन्दु (१९४९) वर्षस्य चतुर्मासी पादलिप्तपुरे एव स्थिताः । __(३) ज्ञानप्राप्तिस्तु प्राधान्येन लक्ष्यरूपेण प्रवर्तत तेषां जीवने । 'चारित्रजीवनस्याऽऽधारोऽपि ज्ञानमेव विद्यते' इति दृढं तेऽमन्यन्त।। ज्ञानं न केवलं श्रमसाध्यः क्षयोपशमसाध्यो वा योगः । नापि तावन्मात्रेणैव तत् कार्यं साधयति । किन्तु श्रमेण क्षयोपशमेन वा सार्द्धं यदा समर्पणं विनयश्च प्रविशतस्तदैव तदान्तरिकी निर्मला परिणतिं जनयितुं समर्थं भवति । सैव निर्मला परिणतिर्विवेकमुद्भावयति, समन्वयं जनयति, शान्ति स्थापयति सन्मार्ग च दर्शयति सर्वेषु क्षेत्रेषु । केवलं क्षयोपशमेन जन्यं ज्ञानं कदाचित् चित्तेऽहङ्कारमुद्भावयेदिति शक्यमेव, पश्चाच्च ‘ज्ञानं विवादाये'त्युक्तिमपि सत्यापयेत् । तेषां जीवने प्रतिक्षणं दृश्यमाना जागृतिः, निर्दम्भवृत्तिः, सरलता च तेषां समर्पणपूतस्य ज्ञानस्यैव प्रभाव आसीत् । सर्वोत्कृष्टायामपि बाह्योपलब्धौ ते मिथ्याभिमानमस्पृशन्त एव निर्लेपा निरहङ्काराश्चाऽतिष्ठन्, तत्राऽपि तेषां ज्ञानपूता परिणतिरेव कारणभूताऽऽसीत् । सततं ते व्यचारयन् यद्-‘सङ्घस्य मूलं तु ज्ञानमेवाऽस्ति । तत्सर्वोऽपि यद्यज्ञानमेव प्रवय॑ते तर्हि परस्परं वादविवादे तस्य सामर्थ्यं सत्त्वं वा विनक्ष्यति । ज्ञानं तु सङ्घस्य शक्तिरस्ति । अत एव तैः पूज्यैामे ग्रामे धार्मिकाभ्यासार्थे पाठ - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100