Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ १४ .नन्दनवनकल्पतरुः २...... अथ च ज्ञात्वा तस्य प्रव्रज्याया उदन्तं सर्वे स्वजनाः सरोषं तत्राऽऽगताः । केनाऽप्युपायेन स्वपुत्रं गृहं नेतुमुद्यताः सर्वे यथातथा जल्पितुं लग्नाः माता तु हृदयद्रावकं रुदनमकरोत् । प्रयत्नशतेनाऽपि तं निश्चलमेव दृष्ट्वा सर्वे शान्ता अभवन् । मातापितरावपि गुरुभगवन्तं क्षान्त्वा नवदीक्षिताय स्वपुत्राय हितशिक्षां प्रदाय स्वस्थानं गतौ । विजितं तत्र वैराग्यं न तु मोहः । (२) इदानीं ते निर्दम्भसमर्पणभावेन चारित्रचर्यायां रक्ता अभवन् । लक्ष्यप्राप्त्यर्थं च स्फारपौरुषेण ते प्रवृत्ता अभूवन् । गुरुभगवन्तं प्रति संयमजीवनं प्रति च तेषां समर्पणमपूर्वमस्ति स्म । कृतत्यागस्याऽऽनन्दोऽपि तेषां प्रत्येकं प्रवृत्तौ सहज एव गोचरीभवति स्म । यतो ज्ञानपूतं वैराग्यमेव तन्मूलमासीत् । अपरं चैतादृगेव त्याग आन्तरिकीं प्रसन्नतां जनयितुमलम् । गुरुसमर्पणभावस्तु तेषां परमं साध्यं वर्तते स्म । ' तद्रहितो विकासो भवेत् कदाचित् पतनस्य कारणम् । किन्तु गुरुकृपामूलो विकास एवाऽऽत्मोन्नतेमर्गमुद्घाटयती 'ति दृढं मन्वानास्ते गुरुभगवतां विचारं वर्तनं च जिनेन तुल्यं गणयित्वैवाऽनुसृतवन्तो नित्यम् । ज्ञानार्जन-गुणानुराग-क्रियारुचि तपोवृत्ति - गुरुविनयेत्यादिभिरने कैर्गुणैप्रतिहतगत्या ते प्रगतिं साधितवन्तः । 'शक्त्या सहाऽहङ्कारोऽप्युत्पद्यत एवे' ति लोकोक्तौ तेऽपवादरूपा आसन् । यतः शक्तिस्तु तेषां न केवलं पुण्यजन्याऽऽसीत्, अपि तु मोहनीयक्षयोद्भवाऽऽसीत् । यथा यथा ज्ञानादिगुणानां वृद्धिर्भूता तथा तथा तेषां विनयोऽपि परां कोटिमारूढः । 'इंगियागारसम्पन्ने' इत्यादीन्युत्तराध्ययनसूत्रोक्तानि विनयलक्षणान्यपि तेषां जीवने तादृशमनुभूयन्ते स्म । 'पूर्वभवगतं क्षयोपशमं तत्सार्द्धं च गुरुकृपासम्पादनम्,' पश्चाच्च किं भवेदसाध्यम् ? प्रतिभा तु तेषां सर्वतोमुखा भूता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100