Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.नन्दनवनकल्पतरु: २......
एतादृशो बुद्ध्याऽगम्यचरित्रो महापुरुषो न मया दृष्टो नाऽनुभूतोऽपि, केवलं गुरुजनानां मुखेन चरित्रपठनेन च परिचितोऽहम् । अज्ञानतयैव लब्धस्य चिन्तारत्नस्य मूल्यं ज्ञात्वा यादृशी आनन्दानुभूतिर्भवति तादृशीमनुभूतिमहमधुना तेषां भगवतां समुदायं सम्प्राप्य करोमि। अतः तद्भक्तिप्रेरितोऽहमेतदुस्साहसमप्येकयैव श्रद्धया करोमि यत् -
तेसिं नामग्गहणे पावप्पबंधा विलयं जंति ।।'
(१)
सौराष्ट्रदेशस्य तिलकतुल्यायां मधुमत्यां नगर्यां वैक्रमीये नन्दयुगनन्देन्दु(१९२९)मिते वर्षे कार्तिकशुक्लस्य प्रतिपद्दिने तेषां जन्माऽभूत् । नूतनवर्षाभ्युदयेन सहभावि तज्जन्म सूचयतीव भविष्यत्कालीनं तत्कर्तृकं जिनशासनस्योद्योतम् । तेषां पिता लक्ष्मीचन्द्रश्रेष्ठी माता च दीवालीबाई श्राविकाऽऽस्ताम् । ____ दृष्ट्वा निजपुत्रस्य तेजस्वि ललाटं प्रसन्नां सौम्यां च मुखमुद्रां मातापित्रोरुभयो-रपि हृदयं हर्षेणोर्मिमदभूत् । एवमनिमेषनयनैः पश्यतः पितुर्दृष्टिः पतिता बालस्य ललाटे । दृष्टश्च तत्र लघीयान्मणिः । सामुद्रिकलक्षणानुसारेण स्वपुत्रस्य भविष्यत्कालं विचारयतस्तस्यानन्दो द्विगुणितोऽभूत् ।
तनगर्यामेव स्थितं ज्योतिर्विदं श्रीविष्णुभट्टविप्रं तज्जन्मसमयादि विज्ञाप्य फलादेशार्थं जिज्ञासा प्रदर्शिता । सर्वं सविस्तरं ज्ञात्वा विप्रोऽवदत् - 'एष बालस्तु महापुरुषत्वेन ख्यातो भविष्यति । यद्येष संसारे वसेत् तदा महानृपतिसदृशो भवेत् किन्तु, बालकस्याऽस्य जन्मलग्नं तु कुम्भलग्नमस्ति । यश्च जनः कुम्भलग्नो भवति स निश्चयेन महान् साधुरेव भवति-इति ज्योतिःशास्त्रस्य कथनम् । अतस्तव पुत्रोऽवश्यं साधुरेव भविष्यति।'
श्रुत्वैतत्कथनं विप्रस्य प्रमुदितहृदयः स गृहमागत्य सर्वं सविस्तरं निजभार्यामचीकथत् । साऽपि निजपुत्रस्यैतादृशं कल्याणकरं वृत्तान्तं श्रुत्वा हर्षो
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100