Book Title: Nandanvan Kalpataru 1999 00 SrNo 02 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ .नन्दनवनकल्पतरुः २... (२) । श्रीस्वामिनारायणो विजयते । यावद्धिमालयो गङ्गा यावच्चन्द्रदिवाकरौ । सतां सङ्घश्व यावद्धि तावत्स्थिरंनु संस्कृतम् ।। लोके खलु पण्डितम्मन्यमाना आधुनिका भाषाविज्ञा, अन्ये चार्धदग्धा वदन्ति यत् ‘संस्कृतभाषा मृतभाषा' इति। परन्तु नन्दनवनकल्पतर्वाख्यम् आधुनिक ग्रन्थमिदं दृष्ट्वा तत्सर्वथाऽलीकमिति प्रतीतिः । जिनशासनरताः साधुसङ्काः सर्वदैव हि सुरभाषायाः प्रवर्धने दत्तचेतस्का इति नाऽविदितचरं विपश्विदपश्चिमानाम् । साधूनां साध्वीनाञ्चाध्ययनाऽनन्तरमपि गीर्वाणाऽभ्यासो नवीनो भूयादित्ययं सुसफलः प्रयत्नः । माध्यमेनाऽनेन शासनसम्राजां भगवत्पादानां पूज्याचार्यश्रीविजयनन्दनसूरीश्वरसदृशानां पुण्यरूपं चरित्रकीर्तनमपि भविष्यतीत्यधिकोऽमूल्यश्च लाभः । ___ 'नन्दनवनकल्पतरु'ग्रन्थं दृष्ट्वा प्रमुदितं मे मनः । अभिनन्दनाऽर्हाः आचार्यश्रीविजयशीलचन्द्रसूरिमहाराजाः, अन्ये च साहाय्यप्रदाः साधुभगवन्तो महानुभावाश्च । अस्मद्गुरुवर्याः प्रमुखस्वामिमहाराजा अपि सामयिकाऽऽयोजनमिदं श्रुत्वा प्रसन्नीभूय शुभाशिषं प्रयच्छन्ति । यतो हि तेऽप्यसङ्कुचितमनसाऽऽयोजनम् एतादृशं सर्वथा सम्मानयन्ति, सुरगिरायाः सर्वथा प्रवृद्धयै प्रयत्नशीलान् प्रोत्साहयन्ति च । न्यायवाचस्पति- शास्त्रविशारद - सिद्धान्तमार्तण्ड कविरत्ने त्यादिबहुविधभूषणमण्डि तानां महामहिम्नामाचार्य श्री विजयनन्दनस् रिमहाराजाणां जन्मशतीसंवत्सरस्य सर्वथा योग्योऽयं प्रयासः। प्रथमशाखारूपोऽयं ग्रन्थः, अनन्तशाखारूपो भवेदिति भगवन्तं स्वामिनारायणं सम्प्रार्थ्य विरमामि । भवदीयः साधु श्रुतिप्रकाशदासः नव्यव्याकरणाचार्यः, सर्वदर्शनाचार्यः, वेदान्ताचार्यः, पूर्वमीमांसाचार्य : - - - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 100