Book Title: Kumar Viharshatakam Author(s): Ratnabodhivijay Publisher: Jinshasan Aradhana TrustPage 21
________________ XX श्रीकुमारविहारशतकम् चतुर्दशाधिकशततमपञ्चदशाधिकशततमकाव्ययोः शतकस्योपसंहारः ... कृतः । चरमवृत्ते कविभिः चैत्यस्य वेधसा चतुर्मुखैरप्यवर्ण्यता प्रदर्शिता । वृत्तान्ते च रचयितृभिः स्वनामापि प्रच्छन्नवृत्त्या न्यस्तम् । शतकगतविविधकाव्यैरिदं ज्ञापितं यत्तच्चैत्यं सूर्यकांत चंद्रकांतपद्मराग-मुक्ताफल-वैडुर्य - नीलमणि स्फटिकाद्यनेकमहार्घ्यमणिभिर्निर्मितमासीत् । तस्मिञ्चैत्ये चित्रशालाऽपि शोभामबिभः । प्रवचनसभाऽपि तच्चैत्यमलञ्चकार । अस्य मूलग्रन्थस्योपरि पंडितविवेक सागर शिष्यविबुधोत्तमसुधाभूषणगणिभिरवचूर्णिर्लिखिताऽस्ति । अस्यामवचूर्णी तैः काव्यानामन्वय कृतः, विषमशब्दानामर्थोऽपि प्रदर्शितः ।, तेन वाचकवर्गाणां काव्यानामर्थबोधः सुगमतया जायते । अनेकस्थानेषु तैः तद्धितकृदंताख्यातानां साधनिकाऽपि प्रकाशिता । तत्र च सिद्धहे मशब्दानुशासनस्य सूत्राणामप्युल्लेखः कृतः । एतेन ज्ञायते ते महावैयाकरणा अप्यासन् । प्रभूतस्थानेषु तैः समासानां विग्रहोऽपि दर्शितः । अस्मिन्पुस्तके मूलश्लोकानां भावार्थविशेषार्थावपि लिखितौ स्तः । तावपि तत्काव्यार्थबोध अतीवोपयोगी वर्तेते । भावार्थेन काव्यानां सामान्यबोधो जायते विशेषार्थेन च तेषां रहस्यार्थो बोध्यते । ... एतत्काव्याध्ययनस्य बहवो लाभा वर्तन्ते, तद्यथा-त्रिलोकना भक्तिर्वर्धते, तच्चैत्यसदृशालौकिकचैत्यनिर्माणस्य प्रेरणा हृद्याविर्भवति, कुमारपालप्रजापालस्य जिनभक्त्युदारतादिगुणानां परिचयो भवति, रामचंद्रगणीनां काव्यशक्ते रसास्वादो भवति, प्रभुचैत्ययोरभूतमहिमा ज्ञायते, संस्कृतभाषानूतनाध्येतॄणां काव्यान्वयकरणाभ्यासो भवति ।Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176