________________
XX
श्रीकुमारविहारशतकम्
चतुर्दशाधिकशततमपञ्चदशाधिकशततमकाव्ययोः शतकस्योपसंहारः
...
कृतः ।
चरमवृत्ते कविभिः चैत्यस्य वेधसा चतुर्मुखैरप्यवर्ण्यता प्रदर्शिता । वृत्तान्ते च रचयितृभिः स्वनामापि प्रच्छन्नवृत्त्या न्यस्तम् ।
शतकगतविविधकाव्यैरिदं ज्ञापितं यत्तच्चैत्यं सूर्यकांत चंद्रकांतपद्मराग-मुक्ताफल-वैडुर्य - नीलमणि स्फटिकाद्यनेकमहार्घ्यमणिभिर्निर्मितमासीत् । तस्मिञ्चैत्ये चित्रशालाऽपि शोभामबिभः । प्रवचनसभाऽपि तच्चैत्यमलञ्चकार ।
अस्य
मूलग्रन्थस्योपरि पंडितविवेक सागर शिष्यविबुधोत्तमसुधाभूषणगणिभिरवचूर्णिर्लिखिताऽस्ति । अस्यामवचूर्णी तैः काव्यानामन्वय कृतः, विषमशब्दानामर्थोऽपि प्रदर्शितः ।, तेन वाचकवर्गाणां काव्यानामर्थबोधः सुगमतया जायते । अनेकस्थानेषु तैः तद्धितकृदंताख्यातानां साधनिकाऽपि प्रकाशिता । तत्र च सिद्धहे मशब्दानुशासनस्य सूत्राणामप्युल्लेखः कृतः । एतेन ज्ञायते ते महावैयाकरणा अप्यासन् । प्रभूतस्थानेषु तैः समासानां विग्रहोऽपि दर्शितः ।
अस्मिन्पुस्तके मूलश्लोकानां भावार्थविशेषार्थावपि लिखितौ स्तः । तावपि तत्काव्यार्थबोध अतीवोपयोगी वर्तेते । भावार्थेन काव्यानां सामान्यबोधो जायते विशेषार्थेन च तेषां रहस्यार्थो बोध्यते ।
...
एतत्काव्याध्ययनस्य बहवो लाभा वर्तन्ते, तद्यथा-त्रिलोकना भक्तिर्वर्धते, तच्चैत्यसदृशालौकिकचैत्यनिर्माणस्य प्रेरणा हृद्याविर्भवति, कुमारपालप्रजापालस्य जिनभक्त्युदारतादिगुणानां परिचयो भवति, रामचंद्रगणीनां काव्यशक्ते रसास्वादो भवति, प्रभुचैत्ययोरभूतमहिमा ज्ञायते, संस्कृतभाषानूतनाध्येतॄणां काव्यान्वयकरणाभ्यासो भवति ।