SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीकुमारविहारशतकम् ... XXI एतत्काव्यसंशोधनसंपादनेन मया यत्पुण्यमुपार्जितं तेन जगज्जीवानां हृदयेषु सततं जिनभक्तिर्वर्धतां यतः सैव मुक्तेर्दूतिरस्ति । मादृशमूर्खशिरोमणिरप्येतत्काव्यसंपादने समर्थोऽभवत् तद्द्मद्गुरुवर्याणां भवोदधितारकवैराग्यदेशनादक्षाचार्यदेवेशश्रीमद्विजयहेमचंद्रसूरीश्वराणां कृपैव । मम विद्यागुरूणां पंन्यासकल्याणबोधिविजयानामुपकारोऽप्यविस्मरणीयः । येषां गृहस्थगुरूणां समीपेऽहमपठं तेऽप्यत्रावश्यं स्मरणीया एव । शासनसम्राट्नेमिसूरीश्वरसमुदायवर्त्ति आचार्यप्रद्युम्नसूरयोऽप्यत्र स्मर्तव्या यैरेतद्ग्रन्थसंशोधनार्थं प्रेरणा कृता द्वे हस्तलिखितप्रती च प्रेषिते । अत्र संशोधने राजनगरस्थ - 'डेहलाज्ञानभंडारस्य' हस्तलिखितप्रतिः राजनगरस्थ-‘पगथीयांज्ञानभंडारस्य' हस्तलिखितप्रतिश्च उपयुक्ते । टिप्पण्यां पाठभेदसूचने आद्यायाः ‘A' इति संज्ञा दत्ताऽस्ति द्वितीयायाश्च 'B' इति संज्ञा दत्ताऽस्ति । छाद्मस्थ्येन मतिमांद्येन च या कापि क्षतिरेतत्संपादने स्यात्तत्कृते क्षमां ‘याचे विदूषश्च तच्छोधनार्थं प्रार्थये । · शिवमस्तु सर्वजगतः । - आचार्य हेमचंद्रसूरि शिष्याणुमुनिरत्नबोधिविजयः । - ज्येष्ठ शुक्ल ११, विक्रम सं. २०५९, वडोदरा (अल्कापूरी) मध्ये |
SR No.005880
Book TitleKumar Viharshatakam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages176
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy