Book Title: Kumar Viharshatakam
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

Previous | Next

Page 17
________________ XVI श्रीकुमारविहारशतकम् सिद्धहेमशब्दानुशासनप्रभृतिनैकग्रन्थप्रणेतृ-कुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यसत्तमाऽर्चनीयक्रम-हेमचंद्रसूरीश्वराणां ते चरणकजचञ्चरिका आसन् । हेमचंद्रसूरिभिः शब्दानुशासनलिङ्गानुशासन-छन्दोऽनुशासन-काव्यानुशासन-वादानुशासनात्मकानुशासनपञ्चकमपराणि च बहूनि ग्रंथरत्नानि जैनसाहित्य उपायनीकृतानि । दशपर्वात्मकं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यमपि तेषामेव रचनोद्यानप्रसूनमस्ति । ते श्रुतदेवतालब्धवरा आसन् । तैः स्वायु:काले सार्धत्रिकोटिप्रमिता नूतनश्लोका निर्मिता यानधुना वयं पठितुमपि न समर्थीभवामः । इत्थं तैर्जेनसाहित्यं समृद्धं कृतम् । ___ मुनिपतिश्रीहेमचंद्रसूरिभिः शैवधर्मवासितान्तःकरणकुमारपालभूमिपालः प्रतिबोधितो जिनभक्तश्च विहितः । प्राग्भवे. कुमारपालपृथ्वीपालजीवेन पञ्चकपर्दकक्रीताष्टादशपुष्पैरुत्तमशुभभावेन जिनार्चनं कृतं यस्य प्रभावेन कुमारपालभवे सोऽष्टादशदेशराज्यं लब्धवान्। जिनभक्त्या स्वप्नेऽप्यचिंतिता लाभाः प्राप्यन्ते । पूज्यपादानां हेमचंद्रसूरीश्वराणामुपदेशेन तेन स्वराज्यान्तर्गताष्टादशदेशेष्वहिंसाया घोषणा कारिता । न केवलं स्वदेशेष्वेवान्यदेशराज्ञो मित्रीकृत्य तत्साहाय्येन तद्देशेष्वप्यहिंसाप्रवर्तनं कारितम् । कुमारपालराज्ये लघुजंतोरपि वधस्य दंडो महानभवत् । अन्यदा तद्राज्य एकेन श्रेष्ठिना जानता सतैका युका विराधिता । राज्ञा गुप्तचरैरेतज्ज्ञातम् । अपराधदंडे तेनेभ्य आदिष्टः - ‘त्वयैकं जिनमंदिर निर्मापयितव्यम् ।' श्रेष्ठिना तथैव कृतम् । तस्य च जिनालयस्य राज्ञा 'युकाविहार' इति नाम स्थापितम् । सः कुमारपालवसुधापाल आयतौ गणभृद्भावी । स्वयं वीरविभुना श्रेणिकराज्ञोऽग्रे कथितं - ‘मदुपदेशेन त्वं तादृगहिंसापालनं न कारयिष्यसि यादृगहिंसापालनं मच्छासने हेमचंद्रसूर्युपदेशेन कुमारपालः क्रारयिष्यति।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 176