Book Title: Kumar Viharshatakam
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 16
________________ श्रीकुमारविहारशतकम् XV परिमलः । यथा कुसुमस्य परिमलेन कुसुमस्य परिचयो भवति तथास्य 'परिमलस्य' पठनेनैतस्य काव्यकुसुमस्य परिचयो वाचकवृन्दानां भविष्यति। अतोऽत्र नेत्रेऽवधार्येताम् । अस्मिञ्जगति विविधाः प्रसङ्गाः संजायन्ते । तेषु केचिच्छोभनाः केचन चासुंदरा अपि सन्ति । सर्वानप्येतान्प्रसङ्गान्कविरेव छद्मस्थेषु यथार्थरूपेणालौकिकापेण च वर्णयितुं समर्थो भवति । स एव कविरुच्यते यः स्वप्रतिभया सर्बान्प्रसङ्गानलङ्कारिभाषया वर्णयति । कवावीदृश्य द्भूतरचनाशक्तिर्वर्तते सेश्वरकृपयैव मन्तव्या । गुर्जरभाषागतैकसुभाषितभावार्थ ईदृगस्ति - यं नाप्नोति रविः (स्वकिरणैः) तं प्राप्नोति कविः (स्वरचनया)। . जैनसाहित्येतिहास ईदृशा नैकाः कवयो भूतपूर्वाः । तेषु पूज्यपादाः सुगृहीतनामधेयाः रामचंद्रगणिवराः सुप्रसिद्धाः सन्ति । तैः स्वजीवनानेहसि प्रभूतानि ग्रन्थ-काव्यानि रचितानि । निर्भयभीमव्यायोग-रघुविलासनाट्यद्रव्यालंकार-राघवाभ्युदयमहाकाव्य-यादवाभ्युदयमहाकाव्य-नलविलासमहाकाव्येत्यादयः तेषां मुख्यकृतयः । ‘प्रबंधशतककर्ता' इति तेषामुपाधिरासीत् । तेषां कृतिषु ‘कुमारविहारशतकं' त्वतीवोत्तमा कृतिरस्ति । तेषां काव्यप्रतिभाया अनुभूतिस्त्वस्य काव्यरत्नस्य पठनानंतरमेव स्यात् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 176