________________
XVI
श्रीकुमारविहारशतकम्
सिद्धहेमशब्दानुशासनप्रभृतिनैकग्रन्थप्रणेतृ-कुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यसत्तमाऽर्चनीयक्रम-हेमचंद्रसूरीश्वराणां ते चरणकजचञ्चरिका आसन् । हेमचंद्रसूरिभिः शब्दानुशासनलिङ्गानुशासन-छन्दोऽनुशासन-काव्यानुशासन-वादानुशासनात्मकानुशासनपञ्चकमपराणि च बहूनि ग्रंथरत्नानि जैनसाहित्य उपायनीकृतानि । दशपर्वात्मकं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यमपि तेषामेव रचनोद्यानप्रसूनमस्ति । ते श्रुतदेवतालब्धवरा आसन् । तैः स्वायु:काले सार्धत्रिकोटिप्रमिता नूतनश्लोका निर्मिता यानधुना वयं पठितुमपि न समर्थीभवामः । इत्थं तैर्जेनसाहित्यं समृद्धं कृतम् । ___ मुनिपतिश्रीहेमचंद्रसूरिभिः शैवधर्मवासितान्तःकरणकुमारपालभूमिपालः प्रतिबोधितो जिनभक्तश्च विहितः । प्राग्भवे. कुमारपालपृथ्वीपालजीवेन पञ्चकपर्दकक्रीताष्टादशपुष्पैरुत्तमशुभभावेन जिनार्चनं कृतं यस्य प्रभावेन कुमारपालभवे सोऽष्टादशदेशराज्यं लब्धवान्। जिनभक्त्या स्वप्नेऽप्यचिंतिता लाभाः प्राप्यन्ते । पूज्यपादानां हेमचंद्रसूरीश्वराणामुपदेशेन तेन स्वराज्यान्तर्गताष्टादशदेशेष्वहिंसाया घोषणा कारिता । न केवलं स्वदेशेष्वेवान्यदेशराज्ञो मित्रीकृत्य तत्साहाय्येन तद्देशेष्वप्यहिंसाप्रवर्तनं कारितम् ।
कुमारपालराज्ये लघुजंतोरपि वधस्य दंडो महानभवत् । अन्यदा तद्राज्य एकेन श्रेष्ठिना जानता सतैका युका विराधिता । राज्ञा गुप्तचरैरेतज्ज्ञातम् । अपराधदंडे तेनेभ्य आदिष्टः - ‘त्वयैकं जिनमंदिर निर्मापयितव्यम् ।' श्रेष्ठिना तथैव कृतम् । तस्य च जिनालयस्य राज्ञा 'युकाविहार' इति नाम स्थापितम् ।
सः कुमारपालवसुधापाल आयतौ गणभृद्भावी । स्वयं वीरविभुना श्रेणिकराज्ञोऽग्रे कथितं - ‘मदुपदेशेन त्वं तादृगहिंसापालनं न कारयिष्यसि यादृगहिंसापालनं मच्छासने हेमचंद्रसूर्युपदेशेन कुमारपालः क्रारयिष्यति।