________________
श्रीकुमारविहारशतकम्
XVII
इत्थं कुमारपालनृपतिरहिंसायाः पूजक आसीत् । यश्चाहिंसायाः पूजकोऽस्ति सः सुतरां जिनभक्तोऽप्यस्त्येव यतः स एवाहिंसायाः प्ररुपकोऽस्ति । कुमारपालवसुंधरापालेन स्वजीवित अनेकानि नूतनजिनगृहाणि निर्मापितानि जीर्णानि च प्रभूतान्युद्धृतानि । पत्तने तेन स्वपितृस्मृतौ जिनप्रासादः कारितः । तस्य च नाम स्वपितृनाम्ना 'त्रिभुवनपालविहार' इति स्थापितम् । तच्च नाम यथार्थमासीद्यतो भगवान्त्रिभुवनोदरवर्तिजीवसङ्घातानंतरंगाऽरिषड्वर्गजनितभयात्पालयति विहारशब्दस्य च चैत्यार्थेऽपि रूढत्वात्। समासश्चात्र षष्ठितत्पुरुषो बोध्यः। इत्थमसौ त्रिभुवनपालस्य विहार आसीत् । तस्मिन्प्रासादे तेन श्रीपार्श्वनाथस्य विद्वममणीमय्यम्याश्च बह्यो धातुमय्यः प्रतिमाः कारिताः । तासाञ्च प्राणप्रतिष्ठार्थं तेन स्वधर्मगुरु-प्रातःस्मरणीयचरण-श्रीहेमचंद्रसूरयो विज्ञप्ताः । परोपकारैकनिरताः सूरिवराः रामचंद्रगण्यादिविशालशिष्यपरिवारेण सह पत्तने समागताः । राज्ञा महामहेन गुरूणां सपरिवाराणां पत्तने प्रवेशः कारितः । जिनबिंबानां प्राणप्रतिष्ठाऽपि महोत्सवपूर्वकं सर्वेषाञ्च हर्षोल्लासपूर्वक संपन्ना । एकदा गुरुपादा' रामचंद्रगणिभिः सार्धं तस्मिञ्चैत्ये दर्शनार्थं समागताः । तदा च कुमारपालपृथ्वीपतिरपि चैत्य एवावर्तत । - भूमिभुजा रामचंद्रगणिवर्या विज्ञप्ता - 'शोभनं जिनालयं निर्मापितं शोभना च प्रतिष्ठा कारिताऽधुना यूयं ममोपरि कृपां विधाय जिनजिनचैत्यवर्णनपराः शोभनाः स्तुतयो रचयत येन विश्वजना पार्श्वप्रभोरस्य
च प्रासादस्य सौंदर्य प्रभावञ्च जानीयुरस्य च दर्शनार्थमुत्कण्ठिताः सन्तः • त्वरितमागच्छेयुः । ___परहितपरायणैर्गणिवर्यैर्मूलनायकश्रीपार्श्वप्रभोवर्णनात्मका अष्टश्लोकाः चैत्यवर्णनपराश्चाष्टाधिकशतश्लोका रचिताः । इत्थं तैः षोडशाधिकशतश्लोकसमूहात्मकं काव्यं रचितं तस्य च कुमारविहारशतकमिति नाम प्रदत्तम् ।