Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
३६
करुणरसकदम्बकम्
स्थानेऽसि रुषितो भ्रातस्तथाप्युत्तिष्ठ सम्प्रति । गच्छत्यस्तं रविः स्वप्नकालो नैष महात्मनाम् ॥ ११ ॥ एवं च प्रलपन् रामस्तामतीयाय यामिनीम् । उत्तिष्ठोत्तिष्ठ हे भ्रातः ! प्रातरप्येवमब्रवीत् ॥ १२ ॥ अनुतिष्ठन्तमुत्थाय तमथ स्नेहमोहितः ।
रामः स्कन्धे समारोप्या भ्राम्यद्भिरिवनादिषु ॥ १३ ॥ कृष्णकायं वहन्नन् पुष्पाद्यैरन्वहं बलः । षण्मासानतिचक्राम भ्रा: स्नेह विमोहितः ॥ १४ ॥
- त्रिषष्टि० प० ८, स० १२, पृ० १५९ ।
[ २४ ] पुत्रविरहे मरुदेव्या विलापः । स्वामिनी मरुदेवाऽपि भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ॥ ४९० ॥ मां त्वां महीं प्रजां लक्ष्मीं विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! ॥ ४९९ ॥ सूनोश्चन्द्रातपच्छायमातपत्रं व मूर्द्धनि ? ।
सर्वाङ्गसन्तापकरः, केदानीं तपनातप: । ४९२ ॥
सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, केदानीं पथिकोचितम् ॥ ४९३ ॥ क्व तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ? |
१ सूर्यस्यातपः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326