Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 299
________________ करुणरसकदम्बकम् - प्रस्खलच्चरणन्यासा, दृष्टा इव भुजङ्गमैः । आस्थानं युगपद्राज्ञोऽविशन् सङ्केतिता इव ॥ १५९ ॥ ॥ चतुर्भिः कलापकम् ।। राजानं ते नमस्कृत्य, यथास्थानसुपाविशन् । *विविक्षव इव क्षोणी, ते च तस्थुरधोमुखाः ॥ १६० ॥ तां विप्रवाचमाकर्ण्य, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिषादिद्विपानिव ॥ १६१ ॥ लिखितो नूल्लिखितो नु, सुप्तो नूतंम्मितो नु वा । शून्यो निष्पन्दनयनो, द्रागभूदवनीपतिः ॥ १६२ ।। ॥ युग्गम् । आप्तमूर्छमधैर्येण धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ १६३ ॥ त्वमसि मापते ! विश्वमोहनिद्राविवस्वतः । ऋषभस्वामिनो वंश्यो, भ्राताचास्यजितप्रभोः ॥ १६४ ॥ इत्थं पृथग्गजन इव, भवन्मोहवशंवदः। तयोः कलङ्कमादत्सेऽधुना किं धरणीधव ! ॥ १६५ ।। राजापि दध्यौ विप्रोऽयं, स्वपुत्रांतापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥ १६६ ॥ १ सभामण्डपम् । २ प्रविष्टुमिच्छवः । ३ हस्तिपकश्चन्यगजानिव ।। ४ स्वस्थम् । ५ हे राजन् । ६ सामान्यजन इव । ७ ऋषभाजितस्वामिनोः। ८ स्वपुत्रमरणमिषात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326