Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 314
________________ करुणरसकदम्बकम् ७७ अभूद् यदारोह इहास्तिकानां सुदुर्लभः कल्प इवोऽनयानाम् । स 'सिद्धशैलो भगवन् ? भवद्वाक्प्रदीपसोयोतहृदा व्यधायि ।।६७॥ अकबरेणाऽवनिवल्लभेन यदार्हतानां कैरसाद नितांतम् । सुधांशुतुल्या तव कीर्तिरेषा विशेषविद्भिलिखिताऽबिम्बे ॥६८॥ -युग्मम् । कुपाक्षिकव्यूहवचोऽम्बुवाहात् सपङ्कमासीज्जनचित्ततोयम् । विभो ! भवद्वाकतकाऽच्छचूर्णप्रयोगतस्तद् विमलं बभूव ॥ ६९॥ ततस्तदन्तः सदसच्च वस्तु जिनोदितं तात ! तवाऽनुभावात् । उपैति संवं प्रतिबिम्बभावं पयोनिधौ बिंबमिवाऽमृतांशोः ॥ ७० ॥ त्वयि प्रदीपे प्रकटप्रभावे गतेऽस्तमस्तान्ध्यभरप्रसारे । अथातिमात्रं कलिकालदोषागमात् तमो भूरि भविष्यतीह ॥ ७१॥ मुदं मम त्वन्मुखपुंडरीकं निपीय या गभ्रमरी बभार । अनन्यवृत्तस्तदभावतोऽस्या मरौ मराल्या इव किं रतिः स्यात् ? ॥७२॥ चिरं शुचिर्या मम हक्चकोरद्वयी पपौ त्वद्वदनेन्दुबिम्बम् । अथेयमस्याः प्रलयं प्रयाता कथं पिपासा बहुकालजन्मा ? ॥ ७३॥ पितस्तवाऽत्यद्भुतसंयमस्य फलं स्फुरद् निर्वृतिरेव वच्मः । यदप्सरोभूसुखभूरभूस्त्वं कलेर्बलीयः किल जम्भितं तत् ।। ७४ ॥ तपो जपो ब्रह्म च हर्षकृद् मे मुँमुक्षुधर्मः सुभग प्रियश्च । यदीत्यभाणीर्भगवन् ! मुधा तद् विहाय सर्व यदभूः स्वरिच्छुः ॥७५॥ १ दुर्भाग्यानाम् । २ शत्रुञ्जयः । ३ हस्तायत्तः। ४ कतकाख्यफलस्य निर्मलचूर्णस्य । ५ मोक्षः । ६ देवाङ्गनाजातसुखस्थानम् । ७ साधुधर्मः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326