Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 324
________________ करुणरसकदम्बकम् ८७ परापवादेन मुखं सदोष, नेत्रं परस्त्रीजनवीक्षणेन । चेतः परोपायविचिंतनेन, कृतं भविष्यामि कथं विभोऽहम् ॥१०॥ विडंबितं यत्स्मरघस्मरार्ति-दशावशात्स्व, विषयांधलेन । प्रकाशित तद्भवतो हियैव, सर्वज्ञ ! सर्व स्वयमेव बेसि ॥ ११ ॥ ध्वस्तोऽन्यमन्त्रैः परमेष्टिमन्त्रः कुशास्त्रवाक्यनिहतागमोक्तिः । कर्ते वृथा कर्म कुदेवसंगादवांछि हि नाथ ! मतिभ्रमो मे ॥१२॥ विमुच्य दृग्लक्ष्यगतं भवन्तं, ध्याता मया मूढधिया हृदंतः। कटाक्षवक्षोजगभीरनाभिकटीतटीयाः सुदृशां विलासाः ॥ १३ ॥ लोलेक्षणावकानिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात्तारक! कारणं किम् ॥१४॥ अङ्गं न चङ्गं न गणो गुणानां, न निर्मल: कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च काऽपि, तथाऽप्यहंकारकदर्थितोऽहम् ॥१५॥ आयुगलल्याशु न पापबुद्धिगतं वयो नो विषयाभिलाषः । यत्नश्व भैषज्यविघौ न धर्म, स्वामिन्महामोहविडम्बना मे ॥१६॥ नाऽत्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव ! धिग माम् ॥१७॥ न देवपूजा न च पात्रपूजा न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरण्यविलापतुल्यम् ॥१८॥ चक्रे मयाऽसत्स्वपि कामधेनुकल्पद्रुचिन्तामणिषु स्पृहार्तिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥१९॥. १ अनर्थस्य । २ निजस्वरूपम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 322 323 324 325 326