________________
करुणरसकदम्बकम्
७७ अभूद् यदारोह इहास्तिकानां सुदुर्लभः कल्प इवोऽनयानाम् । स 'सिद्धशैलो भगवन् ? भवद्वाक्प्रदीपसोयोतहृदा व्यधायि ।।६७॥ अकबरेणाऽवनिवल्लभेन यदार्हतानां कैरसाद नितांतम् । सुधांशुतुल्या तव कीर्तिरेषा विशेषविद्भिलिखिताऽबिम्बे ॥६८॥
-युग्मम् । कुपाक्षिकव्यूहवचोऽम्बुवाहात् सपङ्कमासीज्जनचित्ततोयम् । विभो ! भवद्वाकतकाऽच्छचूर्णप्रयोगतस्तद् विमलं बभूव ॥ ६९॥ ततस्तदन्तः सदसच्च वस्तु जिनोदितं तात ! तवाऽनुभावात् । उपैति संवं प्रतिबिम्बभावं पयोनिधौ बिंबमिवाऽमृतांशोः ॥ ७० ॥ त्वयि प्रदीपे प्रकटप्रभावे गतेऽस्तमस्तान्ध्यभरप्रसारे ।
अथातिमात्रं कलिकालदोषागमात् तमो भूरि भविष्यतीह ॥ ७१॥ मुदं मम त्वन्मुखपुंडरीकं निपीय या गभ्रमरी बभार ।
अनन्यवृत्तस्तदभावतोऽस्या मरौ मराल्या इव किं रतिः स्यात् ? ॥७२॥ चिरं शुचिर्या मम हक्चकोरद्वयी पपौ त्वद्वदनेन्दुबिम्बम् ।
अथेयमस्याः प्रलयं प्रयाता कथं पिपासा बहुकालजन्मा ? ॥ ७३॥ पितस्तवाऽत्यद्भुतसंयमस्य फलं स्फुरद् निर्वृतिरेव वच्मः । यदप्सरोभूसुखभूरभूस्त्वं कलेर्बलीयः किल जम्भितं तत् ।। ७४ ॥ तपो जपो ब्रह्म च हर्षकृद् मे मुँमुक्षुधर्मः सुभग प्रियश्च । यदीत्यभाणीर्भगवन् ! मुधा तद् विहाय सर्व यदभूः स्वरिच्छुः ॥७५॥
१ दुर्भाग्यानाम् । २ शत्रुञ्जयः । ३ हस्तायत्तः। ४ कतकाख्यफलस्य निर्मलचूर्णस्य । ५ मोक्षः । ६ देवाङ्गनाजातसुखस्थानम् । ७ साधुधर्मः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com