________________
७८
करुणरसकदम्बकम्
नवो भवच्छोचनदन्दशूको दुरन्तसन्तापविषापहारि । तवाभिधानं स्मरतां निहन्ति यदाशु चैतन्यमशेषमेवः ॥ ७६ ॥ त्वया प्रदीपेन तमोहरेण प्रकाशितं यज्जिनशासनौकः । न तत्र मिथ्यात्विभुजङ्गचक्षुर्हतिस्तैदीयाहतये बभूव ॥ ७७ ॥ यदीयद्यस्ति तवाभिधानं मुनीन्द्र ! तेषां त्वमिहासि साक्षात् । निरीक्ष्य लेखाक्षरमत्र लोको यस्यमायातमिवाऽवगच्छेत् ।। ७८ ॥ इति क्षरन्नक्षिजलं विलापावग्रहादब्द इवाऽम्बुवृष्टेः । समस्तसंघाग्रहतो व्यरंसीत् सुधीरनूचानशिरोऽवतंसः ॥ ७९ ॥
--विजयप्रशस्त्याम् स० १४
१ शोकाहिः । २ गृहम् । ३ तदुपघाताय । ४ मित्रम । ५ मेघविघ्नरूपाद् वृष्टिरोधात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com