________________
करुणरसकम्दबकम्
[ ४१] श्रीवीरजिनेश्वरवियोगे
नन्दिवर्धनस्य विलापः । त्वया विना वीर । कथं व्रजामो? गृहेऽधुना शून्यवनोपमाने । गोष्ठीसुखं केन सहाचरामो ? भोक्ष्यामहे केन सहाऽथ बन्धो ! ॥१॥ सर्वेषु कार्येषु च वीर वीरे-त्यामन्त्रणादर्शनतस्तवार्य ! । प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्चाऽथ कमाश्रयामः ? ॥ २ ॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाऽञ्जनं भावि कदाऽस्मदक्ष्णोः ? । नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि प्रौढगुणाभिराम ! ॥३॥
—कल्पमूत्रसुबोधिकावृत्तौ पृ० ११३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com