Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 319
________________ करुणरसकदम्बकम् आत्तं दत्त्वापि च मे लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुदालितमधमेनाऽनेन निधिरत्नम् ॥ ५ ॥ आरोप्य मेरुशिखरं, प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेप्याऽप्याऽऽकृष्टं, भोजनभाजनमलज्जेन ॥ ६ ॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं ? धातः । यस्मादेवं कुर्वन्नुचिताऽनुचितं न चिन्तयसि ? ॥ ७ ॥ अथ किं कुर्वे ? क्व च वा, गच्छामि ? वदामि कस्य वा पुरतः। दुर्दैवेन च दग्धा, मुग्धा जग्धाऽधमेन पुनः ॥ ८ ॥ किं राज्येनाऽप्यमुना ? किं वा कृत्रिमसुखैर्विषयजन्यैः ? । किं वा दुकूलशय्याशयनोद्भवशर्महर्येण ? ॥ ९ ॥ गजवृषभादिस्वप्नैः, सूचितमुचितं शुचिं त्रिजगदय॑म् । त्रिभुवनजनासपत्नं, विना जनानन्दिसुतरत्नम् ॥१०॥ युग्मम् ॥ धिक् संसारमसारं, धिगदुःखव्याप्तविषयसुखलेशान् । मधुलिप्तखड्गधारा-लेहनतुलितानहो लुलितान् ॥ ११ ॥ यद्वा मयका किंचित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यदृषिभिः, प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥ पसुपक्खिमाणुसाणं, बाले जोऽवि हु विओअए पावो । सो अणवहो जायइ, अह जायइ तो विवजिज्जा ॥१३॥ १ भक्षिताः। २ पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः। सोऽनपत्यो जायते अथ जायते ततो विपद्येत ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326