Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
-८४
करुणरसकदम्बकम्
सख्यो जगुरथ रे सखि !, शान्तममङ्गलम शेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं, नवेति वद कोविदे ! सत्यम् ॥ २३ ॥ सा प्रोचे गर्भस्य च, कुशले किमकुशलमस्ति मे सख्यः ! । इत्याद्युक्त्वा मूर्च्छामापन्ना पतति भूपीठे ॥ २४ ॥ शीतलवातप्रभृतिभिरुपचारैर्बहुतरैः सखीभीः सा । संप्रापितचैतन्योत्तिष्ठति विलपति च पुनरेवम् ॥ २५ ॥ गेरुए अणोरपारे रयण निहाणे अ सायरे पत्तो । छिद्दघडो न भरिज्जइ, ता किं दोसो जलनिहिस्स ? ॥ २६ ॥ पैत्ते वसन्तमासे, रिद्धिं पार्वति सयस्वणराई ।
जं न करीरे पत्तं, ता किं दोसो वसंतस्स ? ॥ २७ ॥ उत्तुंगो सरलतरु, बहुफलभारेण नमिअसव्वंगो | कुज्जो फलं न पावइ, ता किं दोसो तरुवरस्स ? ॥ २८ ॥ समीहितं यन्न भलामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नावलोकते, तदा स दोषः कथमंशुमालिनः ? ॥ २९ ॥
१ गुरुकेऽनर्वाक्पारे रत्ननिधाने च सागरे प्राप्तः । छिद्रघटो न म्रियते तर्हि किं दोपो जलनिधेः १ ॥ २ प्राप्ते वसन्तमासे ऋद्धि प्राप्नोति सकलवनराजी | यन्न करीरे पत्र तर्हि किं दोषो वसन्तस्य १ ॥ ३ उत्तुङ्गः सरलतरुर्ब्रहुफलभारेण नतसर्वागः ।
कुब्जः फलं न प्राप्नोति तर्हि किं दोषस्तरुवरस्य १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 319 320 321 322 323 324 325 326