Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 317
________________ ८० करुणरसकदम्बकम् [ ४२ ] श्रीमहावीरप्रभुनिर्वाणे गौतमस्य विलापः । प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडेमरवैरादि - राक्षसाः प्रसरमेप्यन्ति ॥ १ ॥ राहुग्रस्त निशाकर - मिव गगनं दीपहीनमिव भवनम् | भरतमिदं गतशोभं, त्वया विनाऽद्य प्रभो ! जज्ञे ॥ २॥ कस्यांहिपीठे प्रणतः पदार्थान्, पुनः पुनः प्रश्नपदीकरोमि ? कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ? ॥३॥ हा ! हा ! हा ! वीर ! किं कृतं ? यदीदृशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा बालवत्तवाञ्चलेऽलगिप्यं ? किं केवलभागममार्गयिष्यं ? किं मुक्तौ सङ्कीर्ण अभविष्यत् ? किं वा तव भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः, एवं च ' वीर ! वीर !' इति कुर्वतो वीइति मुखे लग्नं गौतमस्य, - कल्पसूत्र सुबोधिकावृत्तौ पृ० १३७ १ उलूकाः । २ अवस्कन्दः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326