Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 298
________________ करुणरसकदम्बकम् पुंसो शरीरिकस्येव, जीवितव्येन किं ननु ? ॥ ४५ ॥ किं च पुत्रक्षयं श्रुत्वा, दुःश्रवं चक्रवर्त्यपि । चेद्विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ ४६ ॥ मन्त्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत्तस्थुस्तावदागादेकः काषायभृद्विजः ॥ ४७ ॥ -त्रिषष्टि० प० २, स० ६, पृ० ८६-८७ [३४] षष्टिसहस्रपुत्राणां मरणश्रवणे सगरचक्रयादीनां विलापः । नाशेनैकस्य पुत्रस्य न शोचिष्याम्यत:परम् । मद्वत्वमपि मा शोचीः सर्वपुत्रक्षयेऽपि हि ॥ १५४ ॥ षष्टिसहस्रसंख्यास्ते, दोर्विक्रमविराजिनः । राजन् ! विपन्नास्तनया, युगपत् कालयोगतः ॥ १५५ ॥ अत्रांतरे च सामन्तामात्यसेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥ १५६ ॥ उत्तरीयछन्नमुखाः, शालीना इव लजया । विवर्णदेहाः खेदेन देवदग्धा इव द्रुमाः ॥ १५७ ॥ अत्यंतशून्यमनसः, पिशाचकिन्नरा इव । उदश्रुलोचना दीना मुषिताः कृपणा इव ॥ १५८ ॥ १ म्रियेत । २ काषायवस्त्रधारी । ३ लजावन्त इव। ४ वनामिदग्धाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326