Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 297
________________ करुणरसकदम्बकम् व्योम्नः प्रतिजिघांसेव जिवृक्षेव नभस्वतः ॥ ३५ ॥ एभिः प्रलापैस्तदलं, हस्त्यश्वाद्यखिलं प्रभोः । इदानीमर्पयामः स्वं, वयं न्यासधरा इव ॥ ३६॥ उचितं रुचितं चापि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामी किं नो विचिन्तया ॥ ३७ ॥ एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ ३८ ॥ मन्दमन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं प्रापुः सुप्तोत्थिता इव ॥ ३९ ॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥ ४० ॥ भक्ता बहुज्ञा दोषमन्तो, दृष्टसाराः पुरापि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥ ४१ ॥ विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो, नासिकारहिता इव ? ॥ ४२ ॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् ? । अकाण्डाशनिसम्पात-सदृशं वसुधापतेः ॥ ४३ ॥ अतः परमहो तत्रास्माकं गन्तुं न युज्यते । युज्यते किंतु मरणं, शरणं सर्वदुःखिनाम् ॥ ४४ ॥ सम्भावनायाः प्रगुणीकृताया ग्रंशभाजिनः । १ प्रति हेतुमिच्छा। २ ग्रहीतुमिच्छा । ३ खिन्नाः। ४ असमये वज्रपात इव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326