________________
करुणरसकदम्बकम्
व्योम्नः प्रतिजिघांसेव जिवृक्षेव नभस्वतः ॥ ३५ ॥ एभिः प्रलापैस्तदलं, हस्त्यश्वाद्यखिलं प्रभोः । इदानीमर्पयामः स्वं, वयं न्यासधरा इव ॥ ३६॥ उचितं रुचितं चापि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामी किं नो विचिन्तया ॥ ३७ ॥ एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ ३८ ॥ मन्दमन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं प्रापुः सुप्तोत्थिता इव ॥ ३९ ॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥ ४० ॥ भक्ता बहुज्ञा दोषमन्तो, दृष्टसाराः पुरापि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥ ४१ ॥ विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो, नासिकारहिता इव ? ॥ ४२ ॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् ? ।
अकाण्डाशनिसम्पात-सदृशं वसुधापतेः ॥ ४३ ॥ अतः परमहो तत्रास्माकं गन्तुं न युज्यते । युज्यते किंतु मरणं, शरणं सर्वदुःखिनाम् ॥ ४४ ॥ सम्भावनायाः प्रगुणीकृताया ग्रंशभाजिनः ।
१ प्रति हेतुमिच्छा। २ ग्रहीतुमिच्छा । ३ खिन्नाः। ४ असमये वज्रपात इव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com