________________
करुणरसकदम्बकम् किं 'तिरोधानविद्येह, भवतां काप्युपस्थिता । सा तु खेदाय भृत्यानां, प्रयोक्तुं नहि युज्यते ॥ २६ ॥ युष्मान्नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी, ऋषिहत्याकृतामिव ? ॥ २७ ॥ युष्मान्विना गतान्नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय ! स्फुट रे सद्यः, पयःसिक्तामैकुम्भवत् ॥ २८ ॥ तिष्ठ तिष्ठाहिखेट ! त्वं, छलेन श्वव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वायासीः क रेऽधुना ? ॥ २९ ।। खङ्गः खङ्गो धन्व धन्व, शक्तिः शक्तिर्गदा गदा । युद्धाय सज्जीभव रे, कियन्नंष्ट्वा गमिष्यसि ? ॥ ३० ॥ अमी तावदिह त्यक्त्वा, ययुनः स्वामिसूनवः । ह हा तत्र गतानद्य, त्यक्ष्यति स्वाम्यपि द्रुतम् ॥ ३१ ॥ अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः ।। श्रुत्वा लजिष्यते स्वामी, यदि वा निग्रहीष्यति ॥ ३२ ।। एवं रुदित्वा विविधं, भूयः संभूय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुिरित्यथ ॥ ३३ ॥ पूर्वोदितैविधानेभ्यः, परोक्तविधिर्वद्विधिः । सर्वेभ्यो क्लवांस्तस्मान्न कोऽपि बलवत्तरः ॥ ३४ ॥ तत्राशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् ।
१ अदृश्यकरणविद्या । २ अपक्कः । ३ हे नागराज !। ४ स्वाभाविकम् । ५ पूर्वविधिभ्यः पगेविधिबलवान् इति नियमेन । ६ दैवम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com