Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
Fe
करुणरसकदम्बकम्
[ ३० ] सगरचक्रिणोऽग्रे द्विजस्य कृत्रिमविलापः ।
इत्यादिभिर्दु निमित्तैर्विद्धो हृदि शरैखि ।
विमनाः प्राविशमहं चञ्चापुरुषवद्गृहम् ॥ ९८ ॥ मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी 'विलुल्कचा | सद्यो हा पुत्र ! हा पुत्रेत्याक्रन्दन्त्यपतद्भुवि ॥ ९९ ॥ ध्रुवं विपन्नो मे पुत्र, इति निश्चित्य चेतसा । अहमप्यपतं सद्यो, गतप्राण इवावनौ ॥ १०० ॥ मूर्छाविरामे भूयोऽपि प्रलपन् करुणस्वरम् । अपश्यं गृहमध्येऽहं, सर्पदष्टमिमं सुतम् ॥ १०१ ॥ भोजनाद्यप्यकृत्वास्थां, यावज्जाग्रदहं निशि । कुलदेवतया तावदिदमादेशि मे पुनः ॥ १०२ ॥ भोः किमेवं समुद्विग्नोऽस्यमुना पुत्रमृत्युना ! ॥ * संपादयामि ते पुत्रं, यद्यादेशं करोषि मे ॥ १०३ ॥ देव्याः प्रमाणमादेश, इत्यवोचमहं ततः । पुत्रार्थे शोकविधुरैः, किं वा न प्रतिपद्यते ॥ १०४ ॥ कुलदेवतयाथोक्तं, विपन्नो यत्र कोऽपि न ।
"
ततोऽग्निं मङ्गलगृहात् कुतोऽप्यानय सत्वरम् ॥ १०५॥ ततस्तनयलोभेन, प्रत्यहं प्रतिमन्दिरम् ।
तत्पृच्छन् हस्यमानोऽहं, भ्रान्तोऽर्भक इवाभ्रमम् ॥ १०६ ॥
१ विकीर्णकेशाः । २ जीवयामि । ३ मृतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326